001 वैशम्पायन उवाच 001a अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः 001c दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः 002a तव कृष्ण प्रसादेन नयेन च बलेन च 002c बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च 003a पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया 003c नमस्ते पुण्डरीकाक्ष पुनः पुनररिन्दम 004a त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम् 004c नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः 005a विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसम्भव 005c विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम 006a अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः 006c पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि 007a शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे 007c त्रिचक्षुः शम्भुरेकस्त्वं विभुर्दामोदरोऽपि च 008a वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः 008c अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः 009a वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः 009c अच्युतश्च्यावनोऽरीणां सङ्कृतिर्विकृतिर्वृषः 010a कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः 010c सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः 011a सम्राड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः 011c विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च 012a स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः 012c यज्ञो ध्रुवः पतङ्गश्च जयत्सेनस्त्वमुच्यसे 013a शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः 013c सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा 014a गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः 014c ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे 015a अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च 015c हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव 016a योनिस्त्वमस्य प्रलयश्च कृष्ण त्वमेवेदं सृजसि विश्वमग्रे 016c विश्वं चेदं त्वद्वशे विश्वयोने नमोऽस्तु ते शार्ङ्गचक्रासिपाणे 017a एवं स्तुतो धर्मराजेन कृष्णः सभामध्ये प्रीतिमान्पुष्कराक्षः 017c तमभ्यनन्दद्भारतं पुष्कलाभिर्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः