001 वैशम्पायन उवाच 001a ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे 001c श्राद्धानि कारयामास तेषां पृथगुदारधीः 002a धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् 002c सर्वकामगुणोपेतमन्नं गाश्च धनानि च 002e रत्नानि च विचित्राणि महार्हाणि महायशाः 003a युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः 003c धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः 004a विराटप्रभृतीनां च सुहृदामुपकारिणाम् 004c द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ 005a ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् 005c धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत् 006a ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः 006c उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् 007a सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः 007c सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम् 008a स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् 008c कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् 009a धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा 009c सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत् 010a याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः 010c सर्वास्ताः कौरवो राजा सम्पूज्यापालयद्घृणी 011a दीनान्धकृपणानां च गृहाच्छादनभोजनैः 011c आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः 012a स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु 012c निःसपत्नः सुखी राजा विजहार युधिष्ठिरः