001 वैशम्पायन उवाच 001a प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम् 001c श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत 002a धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुङ्गवाः 002c तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः 003a अनुग्राह्या वयं नूनं भवतामिति मे मतिः 003c यत्रैवं गुणसम्पन्नानस्मान्ब्रूथ विमत्सराः 004a धृतराष्ट्रो महाराजः पिता नो दैवतं परम् 004c शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः 005a एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत् 005c अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा 006a यदि चाहमनुग्राह्यो भवतां सुहृदां ततः 006c धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ 007a एष नाथो हि जगतो भवतां च मया सह 007c अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च 007e एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम 008a अनुगम्य च राजानं यथेष्टं गम्यतामिति 008c पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः 008e यौवराज्येन कौरव्यो भीमसेनमयोजयत् 009a मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने 009c विदुरं बुद्धिसम्पन्नं प्रीतिमान्वै समादिशत् 010a कृताकृतपरिज्ञाने तथायव्ययचिन्तने 010c सञ्जयं योजयामास ऋद्धमृद्धैर्गुणैर्युतम् 011a बलस्य परिमाणे च भक्तवेतनयोस्तथा 011c नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे 012a परचक्रोपरोधे च दृप्तानां चावमर्दने 012c युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह 013a द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि 013c धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परन्तपः 014a सहदेवं समीपस्थं नित्यमेव समादिशत् 014c तेन गोप्यो हि नृपतिः सर्वावस्थो विशाम्पते 015a यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु 015c तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः 016a विदुरं सञ्जयं चैव युयुत्सुं च महामतिम् 016c अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः 017a उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम 017c सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम् 018a पौरजानपदानां च यानि कार्याणि नित्यशः 018c राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः