001 वैशम्पायन उवाच 001a ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः 001c काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने 002a तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते 002c सात्यकिर्वासुदेवश्च निषीदतुररिन्दमौ 003a मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ 003c निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः 004a दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते 004c पृथापि सहदेवेन सहास्ते नकुलेन च 005a सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः 005c निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक् 006a युयुत्सुः सञ्जयश्चैव गान्धारी च यशस्विनी 006c धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन् 007a तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत् 007c स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन् 008a ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम् 008c ददृशुर्धर्मराजानमादाय बहु मङ्गलम् 009a पृथिवीं च सुवर्णं च रत्नानि विविधानि च 009c आभिषेचनिकं भाण्डं सर्वसम्भारसम्भृतम् 010a काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः 010c पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः 011a शमीपलाशपुन्नागाः समिधो मधुसर्पिषी 011c स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः 012a दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः 012c प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह 013a व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने 013c दृढपादप्रतिष्ठाने हुताशनसमत्विषि 014a उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम् 014c जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम् 015a अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम् 015c धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा 016a ततोऽनुवादयामासुः पणवानकदुन्दुभीः 016c धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः 017a पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः 017c ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत् 017e वेदाध्ययनसम्पन्नाञ्शीलवृत्तसमन्वितान् 018a ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च 018c हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम् 019a युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव 019c दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते 020a दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः 020c त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ 021a मुक्ता वीरक्षयादस्मात्सङ्ग्रामान्निहतद्विषः 021c क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव 022a ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः 022c प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत