001 वैशम्पायन उवाच 001a प्रवेशने तु पार्थानां जनस्य पुरवासिनः 001c दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ 002a स राजमार्गः शुशुभे समलङ्कृतचत्वरः 002c यथा चन्द्रोदये राजन्वर्धमानो महोदधिः 003a गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च 003c प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत 004a ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम् 004c भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ 005a धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान् 005c उपतिष्ठसि कल्याणि महर्षीनिव गौतमी 006a तव कर्माण्यमोघानि व्रतचर्या च भामिनि 006c इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः 007a प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत 007c प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम् 008a तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः 008c अलङ्कृतं शोभमानमुपायाद्राजवेश्म ह 009a ततः प्रकृतयः सर्वाः पौरजानपदास्तथा 009c ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः 010a दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन 010c दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च 011a भव नस्त्वं महाराज राजेह शरदां शतम् 011c प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप 012a एवं राजकुलद्वारि मङ्गलैरभिपूजितः 012c आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः 013a प्रविश्य भवनं राजा देवराजगृहोपमम् 013c श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत् 014a प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च 014c पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः 015a निश्चक्राम ततः श्रीमान्पुनरेव महायशाः 015c ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान् 016a स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः 016c शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा 017a तान्स सम्पूजयामास कौन्तेयो विधिवद्द्विजान् 017c धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च 018a सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा 018c गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः 019a ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत 019c सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः 020a हंसवन्नेदुषां राजन्द्विजानां तत्र भारती 020c शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा 021a ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः 021c जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप 022a निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः 022c राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत् 023a तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः 023c साङ्ख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः 024a वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः 024c परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः 025a स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम् 025c अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम् 026a इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि 026c धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै 027a किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसङ्क्षयम् 027c घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम् 028a इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः 028c विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः 029a ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः 029c व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशाम्पते 030 युधिष्ठिर उवाच 030a प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः 030c प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ 031 वैशम्पायन उवाच 031a ततो राजन्ब्राह्मणास्ते सर्व एव विशाम्पते 031c ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव 032a जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा 032c ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः 033 ब्राह्मणा ऊचुः 033a एष दुर्योधनसखा चार्वाको नाम राक्षसः 033c परिव्राजकरूपेण हितं तस्य चिकीर्षति 034a न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम् 034c उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह 035 वैशम्पायन उवाच 035a ततस्ते ब्राह्मणाः सर्वे हुङ्कारैः क्रोधमूर्छिताः 035c निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम् 036a स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम् 036c महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव 037a पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम् 037c राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः 038 वासुदेव उवाच 038a ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम 038c एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः 039a पुरा कृतयुगे तात चार्वाको नाम राक्षसः 039c तपस्तेपे महाबाहो बदर्यां बहुवत्सरम् 040a छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः 040c अभयं सर्वभूतेभ्यो वरयामास भारत 041a द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम् 041c अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः 042a स तु लब्धवरः पापो देवानमितविक्रमः 042c राक्षसस्तापयामास तीव्रकर्मा महाबलः 043a ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन् 043c वधाय रक्षसस्तस्य बलविप्रकृतास्तदा 044a तानुवाचाव्ययो देवो विहितं तत्र वै मया 044c यथास्य भविता मृत्युरचिरेणैव भारत 045a राजा दुर्योधनो नाम सखास्य भविता नृप 045c तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते 046a तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः 046c धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति 047a स एष निहतः शेते ब्रह्मदण्डेन राक्षसः 047c चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ 048a हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव 048c स्वर्गताश्च महात्मानो वीराः क्षत्रियपुङ्गवाः 049a स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत 049c शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय