001 युधिष्ठिर उवाच 001a श्रोतुमिच्छामि भगवन्विस्तरेण महामुने 001c राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् 002a आपत्सु च यथा नीतिर्विधातव्या महीक्षिता 002c धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् 003a प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यविवर्धिता 003c कौतूहलानुप्रवणा हर्षं जनयतीव मे 004a धर्मचर्या च राज्यं च नित्यमेव विरुध्यते 004c येन मुह्यति मे चेतश्चिन्तयानस्य नित्यशः 005 वैशम्पायन उवाच 005a तमुवाच महातेजा व्यासो वेदविदां वरः 005c नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् 006a श्रोतुमिच्छसि चेद्धर्मानखिलेन युधिष्ठिर 006c प्रैहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् 007a स ते सर्वरहस्येषु संशयान्मनसि स्थितान् 007c छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् 008a जनयामास यं देवी दिव्या त्रिपथगा नदी 008c साक्षाद्ददर्श यो देवान्सर्वाञ्शक्रपुरोगमान् 009a बृहस्पतिपुरोगांश्च देवर्षीनसकृत्प्रभुः 009c तोषयित्वोपचारेण राजनीतिमधीतवान् 010a उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः 010c तच्च सर्वं सवैयाख्यं प्राप्तवान्कुरुसत्तमः 011a भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् 011c प्रतिपेदे महाबुद्धिर्वसिष्ठाच्च यतव्रतात् 012a पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् 012c अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा 013a मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् 013c रामादस्त्राणि शक्राच्च प्राप्तवान्भरतर्षभ 014a मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि 014c तथानपत्यस्य सतः पुण्यलोका दिवि श्रुताः 015a यस्य ब्रह्मर्षयः पुण्या नित्यमासन्सभासदः 015c यस्य नाविदितं किञ्चिज्ज्ञानज्ञेयेषु विद्यते 016a स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् 016c तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् 017a एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महाद्युतिः 017c उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् 018a वैशसं सुमहत्कृत्वा ज्ञातीनां लोमहर्षणम् 018c आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः 019a घातयित्वा तमेवाजौ छलेनाजिह्मयोधिनम् 019c उपसम्प्रष्टुमर्हामि तमहं केन हेतुना 020a ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया 020c पुनराह महाबाहुर्यदुश्रेष्ठो महाद्युतिः 021a नेदानीमतिनिर्बन्धं शोके कर्तुमिहार्हसि 021c यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम 022a ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः 022c पर्जन्यमिव घर्मार्ता आशंसाना उपासते 023a हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् 023c चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् 024a प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् 024c नियोगादस्य च गुरोर्व्यासस्यामिततेजसः 025a सुहृदां चास्मदादीनां द्रौपद्याश्च परन्तप 025c कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु 026a एवमुक्तस्तु कृष्णेन राजा राजीवलोचनः 026c हितार्थं सर्वलोकस्य समुत्तस्थौ महातपाः 027a सोऽनुनीतो नरव्याघ्रो विष्टरश्रवसा स्वयम् 027c द्वैपायनेन च तथा देवस्थानेन जिष्णुना 028a एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः 028c व्यजहान्मानसं दुःखं सन्तापं च महामनाः 029a श्रुतवाक्यः श्रुतनिधिः श्रुतश्रव्यविशारदः 029c व्यवस्य मनसः शान्तिमगच्छत्पाण्डुनन्दनः 030a स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः 030c धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह 031a प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः 031c अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः 032a ततो रथं नवं शुभ्रं कम्बलाजिनसंवृतम् 032c युक्तं षोडशभिर्गोभिः पाण्डुरैः शुभलक्षणैः 033a मन्त्रैरभ्यर्चितः पुण्यैः स्तूयमानो महर्षिभिः 033c आरुरोह यथा देवः सोमोऽमृतमयं रथम् 034a जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः 034c अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् 035a ध्रियमाणं तु तच्छत्रं पाण्डुरं तस्य मूर्धनि 035c शुशुभे तारकाराजसितमभ्रमिवाम्बरे 036a चामरव्यजने चास्य वीरौ जगृहतुस्तदा 036c चन्द्ररश्मिप्रभे शुभ्रे माद्रीपुत्रावलङ्कृते 037a ते पञ्च रथमास्थाय भ्रातरः समलङ्कृताः 037c भूतानीव समस्तानि राजन्ददृशिरे तदा 038a आस्थाय तु रथं शुभ्रं युक्तमश्वैर्महाजवैः 038c अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् 039a रथं हेममयं शुभ्रं सैन्यसुग्रीवयोजितम् 039c सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् 040a नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत 040c अग्रतो धर्मराजस्य गान्धारीसहितो ययौ 041a कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च द्रौपदी 041c यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः 042a ततो रथाश्च बहुला नागाश्च समलङ्कृताः 042c पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् 043a ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः 043c स्तूयमानो ययौ राजा नगरं नागसाह्वयम् 044a तत्प्रयाणं महाबाहोर्बभूवाप्रतिमं भुवि 044c आकुलाकुलमुत्सृष्टं हृष्टपुष्टजनान्वितम् 045a अभियाने तु पार्थस्य नरैर्नगरवासिभिः 045c नगरं राजमार्गश्च यथावत्समलङ्कृतम् 046a पाण्डुरेण च माल्येन पताकाभिश्च वेदिभिः 046c संवृतो राजमार्गश्च धूपनैश्च सुधूपितः 047a अथ चूर्णैश्च गन्धानां नानापुष्पैः प्रियङ्गुभिः 047c माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् 048a कुम्भाश्च नगरद्वारि वारिपूर्णा दृढा नवाः 048c कन्याः सुमनसश्छागाः स्थापितास्तत्र तत्र ह 049a तथा स्वलङ्कृतद्वारं नगरं पाण्डुनन्दनः 049c स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः