001 वैशम्पायन उवाच 001a एवमुक्तो भगवता धर्मराजो युधिष्ठिरः 001c चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम् 002a किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते 002c किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह 003 व्यास उवाच 003a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 003c सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः 004a सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम् 004c धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् 005a कथमन्नं कथं दानं कथमध्ययनं तपः 005c कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते 006a तैरेवमुक्तो भगवान्मनुः स्वायम्भुवोऽब्रवीत् 006c शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः 007a अदत्तस्यानुपादानं दानमध्ययनं तपः 007c अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम् 008a य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः 008c आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः 009a द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् 009c अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः 010a अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् 010c अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च 011a एतयोश्चोभयोः स्यातां शुभाशुभतया तथा 011c दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह 012a अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् 012c ऊर्ध्वं भवति सन्देहादिह दृष्टार्थमेव वा 012e अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते 013a क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः 013c शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये 013e तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति 014a जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः 014c वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते 015a दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः 015c यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये 016a अरुणा मृत्तिका चैव तथा चैव पिपीलकाः 016c श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च 017a अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः 017c चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये 018a भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः 018c कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च 019a क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः 019c येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः 020a एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि 020c मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः 021a प्रेतान्नं सूतिकान्नं च यच्च किञ्चिदनिर्दशम् 021c अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम् 022a तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च 022c चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा 023a गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये 023c परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा 024a वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत् 024c सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् 025a पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा 025c सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः 026a पायसं कृसरं मांसमपूपाश्च वृथा कृताः 026c अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः 027a देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः 027c पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति 028a यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत् 028c एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात् 029a न दद्याद्यशसे दानं न भयान्नोपकारिणे 029c न नृत्तगीतशीलेषु हासकेषु च धार्मिकः 030a न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके 030c न वाग्घीने विवर्णे वा नाङ्गहीने न वामने 031a न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः 031c अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि 032a असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः 032c उभयोः स्यादनर्थाय दातुरादातुरेव च 033a यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् 033c मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः 034a काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते 034c तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही 035a कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः 035c आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् 036a निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः 036c अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि 037a न वै देयमनुक्रोशाद्दीनायाप्यपकारिणे 037c आप्ताचरितमित्येव धर्म इत्येव वा पुनः 038a निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते 038c भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा 039a यथा दारुमयो हस्ती यथा चर्ममयो मृगः 039c ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः 040a यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला 040c शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा 041a ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः 041c यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ 042a देवतानां पितॄणां च हव्यकव्यविनाशनः 042c शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति 043a एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर 043c समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ