001 व्यास उवाच 001a तपसा कर्मभिश्चैव प्रदानेन च भारत 001c पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते 002a एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् 002c कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः 003a अनसूयुरधःशायी कर्म लोके प्रकाशयन् 003c पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते 004a षड्भिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः 004c मासे मासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते 005a संवत्सरेण मासाशी पूयते नात्र संशयः 005c तथैवोपरमन्राजन्स्वल्पेनापि प्रमुच्यते 006a क्रतुना चाश्वमेधेन पूयते नात्र संशयः 006c ये चास्यावभृथे स्नान्ति केचिदेवंविधा नराः 007a ते सर्वे पूतपाप्मानो भवन्तीति परा श्रुतिः 007c ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया 008a गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयन् 008c ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च 009a कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् 009c दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते 010a गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये 010c साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्बिषात् 011a शतं वै यस्तु काम्बोजान्ब्राह्मणेभ्यः प्रयच्छति 011c नियतेभ्यो महीपाल स च पापात्प्रमुच्यते 012a मनोरथं तु यो दद्यादेकस्मा अपि भारत 012c न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते 013a सुरापानं सकृत्पीत्वा योऽग्निवर्णां पिबेद्द्विजः 013c स पावयत्यथात्मानमिह लोके परत्र च 014a मेरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् 014c महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः 015a बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः 015c समितिं ब्राह्मणैर्गच्छेदिति वै ब्राह्मणी श्रुतिः 016a भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः 016c पुनर्न च पिबेद्राजन्संस्कृतः शुध्यते नरः 017a गुरुतल्पी शिलां तप्तामायसीमधिसंविशेत् 017c पाणावाधाय वा शेफं प्रव्रजेदूर्ध्वदर्शनः 018a शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् 018c कर्मभ्यो विप्रमुच्यन्ते यत्ताः संवत्सरं स्त्रियः 019a महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु 019c गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् 020a अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा 020c उपहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते 021a अवकीर्णिनिमित्तं तु ब्रह्महत्याव्रतं चरेत् 021c खरचर्मवासाः षण्मासं तथा मुच्येत किल्बिषात् 022a परदारापहारी च परस्यापहरन्वसु 022c संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् 023a स्तेयं तु यस्यापहरेत्तस्मै दद्यात्समं वसु 023c विविधेनाभ्युपायेन तेन मुच्येत किल्बिषात् 024a कृच्छ्राद्द्वादशरात्रेण स्वभ्यस्तेन दशावरम् 024c परिवेत्ता भवेत्पूतः परिवित्तिश्च भारत 025a निवेश्यं तु भवेत्तेन सदा तारयिता पितॄन् 025c न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते 026a भजने ह्यृतुना शुद्धं चातुर्मास्यं विधीयते 026c स्त्रियस्तेन विशुध्यन्ति इति धर्मविदो विदुः 027a स्त्रियस्त्वाशङ्किताः पापैर्नोपगम्या हि जानता 027c रजसा ता विशुध्यन्ते भस्मना भाजनं यथा 028a चतुष्पात्सकलो धर्मो ब्राह्मणानां विधीयते 028c पादावकृष्टो राजन्ये तथा धर्मो विधीयते 029a तथा वैश्ये च शूद्रे च पादः पादो विधीयते 029c विद्यादेवंविधेनैषां गुरुलाघवनिश्चयम् 030a तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्त्वेतरान्बहून् 030c त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयेन्नरः 031a अगम्यागमने राजन्प्रायश्चित्तं विधीयते 031c आर्द्रवस्त्रेण षण्मासं विहार्यं भस्मशायिना 032a एष एव तु सर्वेषामकार्याणां विधिर्भवेत् 032c ब्राह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः 033a सावित्रीमप्यधीयानः शुचौ देशे मिताशनः 033c अहिंस्रोऽमन्दकोऽजल्पन्मुच्यते सर्वकिल्बिषैः 034a अहःसु सततं तिष्ठेदभ्याकाशं निशि स्वपेत् 034c त्रिरह्नस्त्रिर्निशायाश्च सवासा जलमाविशेत् 035a स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्व्रतान्वितः 035c पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः 036a शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकः 036c अतिरिच्येत्तयोर्यत्तु तत्कर्ता लभते फलम् 037a तस्माद्दानेन तपसा कर्मणा च शुभं फलम् 037c वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् 038a कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् 038c दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् 039a अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् 039c महापातकवर्जं तु प्रायश्चित्तं विधीयते 040a भक्ष्याभक्ष्येषु सर्वेषु वाच्यावाच्ये तथैव च 040c अज्ञानज्ञानयो राजन्विहितान्यनुजानते 041a जानता तु कृतं पापं गुरु सर्वं भवत्युत 041c अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते 042a शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् 042c आस्तिके श्रद्दधाने तु विधिरेष विधीयते 043a नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन 043c दम्भदोषप्रधानेषु विधिरेष न दृश्यते 044a शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर 044c सेवितव्यो नरव्याघ्र प्रेत्य चेह सुखार्थिना 045a स राजन्मोक्ष्यसे पापात्तेन पूर्वेण हेतुना 045c त्राणार्थं वा वधेनैषामथ वा नृपकर्मणा 046a अथ वा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि 046c मा त्वेवानार्यजुष्टेन कर्मणा निधनं गमः