001 युधिष्ठिर उवाच 001a कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः 001c किं कृत्वा चैव मुच्येत तन्मे ब्रूहि पितामह 002 व्यास उवाच 002a अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् 002c प्रायश्चित्तीयते ह्येवं नरो मिथ्या च वर्तयन् 003a सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत 003c तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि 004a परिवित्तिः परिवेत्ता ब्रह्मोज्झो यश्च कुत्सकः 004c दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च 005a अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा 005c अतीर्थे ब्रह्मणस्त्यागी तीर्थे चाप्रतिपादकः 006a ग्रामयाजी च कौन्तेय राज्ञश्च परिविक्रयी 006c शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः 007a वृथापशुसमालम्भी वनदाहस्य कारकः 007c अनृतेनोपचर्ता च प्रतिरोद्धा गुरोस्तथा 008a यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी 008c एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः 009a अकार्याण्यपि वक्ष्यामि यानि तानि निबोध मे 009c लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु 010a स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया 010c अयाज्ययाजनं चैव तथाभक्ष्यस्य भक्षणम् 011a शरणागतसन्त्यागो भृत्यस्याभरणं तथा 011c रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा 012a आधानादीनि कर्माणि शक्तिमान्न करोति यः 012c अप्रयच्छंश्च सर्वाणि नित्यं देयानि भारत 013a दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् 013c सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः 014a पित्रा विभजते पुत्रो यश्च स्याद्गुरुतल्पगः 014c अप्रजायन्नधर्मेण भवत्याधर्मिको जनः 015a उक्तान्येतानि कर्माणि विस्तरेणेतरेण च 015c यानि कुर्वन्नकुर्वंश्च प्रायश्चित्तीयते जनः 016a एतान्येव तु कर्माणि क्रियमाणानि मानवान् 016c येषु येषु निमित्तेषु न लिम्पन्त्यथ तच्छृणु 017a प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे 017c जिघांसन्तं निहत्याजौ न तेन ब्रह्महा भवेत् 018a अपि चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते 018c वेदप्रमाणविहितं तं धर्मं प्रब्रवीमि ते 019a अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् 019c न तेन ब्रह्महा स स्यान्मन्युस्तं मन्युमृच्छति 020a प्राणात्यये तथाज्ञानादाचरन्मदिरामपि 020c अचोदितो धर्मपरः पुनः संस्कारमर्हति 021a एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् 021c प्रायश्चित्तविधानेन सर्वमेतेन शुध्यति 022a गुरुतल्पं हि गुर्वर्थे न दूषयति मानवम् 022c उद्दालकः श्वेतकेतुं जनयामास शिष्यतः 023a स्तेयं कुर्वंस्तु गुर्वर्थमापत्सु न निबध्यते 023c बहुशः कामकारेण न चेद्यः सम्प्रवर्तते 024a अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति 024c स्वयमप्राशिता यश्च न स पापेन लिप्यते 025a प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य वा 025c गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च 026a नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथञ्चन 026c आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते 027a पारिवित्त्यं च पतिते नास्ति प्रव्रजिते तथा 027c भिक्षिते पारदार्यं च न तद्धर्मस्य दूषकम् 028a वृथापशुसमालम्भं नैव कुर्यान्न कारयेत् 028c अनुग्रहः पशूणां हि संस्कारो विधिचोदितः 029a अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् 029c सकारणं तथा तीर्थेऽतीर्थे वा प्रतिपादनम् 030a स्त्रियस्तथापचारिण्यो निष्कृतिः स्याददूषिका 030c अपि सा पूयते तेन न तु भर्ता प्रदुष्यते 031a तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददूषकः 031c असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् 031e वनदाहो गवामर्थे क्रियमाणो न दूषकः 032a उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति 032c प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत