001 वैशम्पायन उवाच 001a युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा 001c समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् 002a मा विषादं कृथा राजन्क्षत्रधर्ममनुस्मर 002c स्वधर्मेण हता ह्येते क्षत्रियाः क्षत्रियर्षभ 003a काङ्क्षमाणाः श्रियं कृत्स्नां पृथिव्यां च महद्यशः 003c कृतान्तविधिसंयुक्ताः कालेन निधनं गताः 004a न त्वं हन्ता न भीमोऽपि नार्जुनो न यमावपि 004c कालः पर्यायधर्मेण प्राणानादत्त देहिनाम् 005a न यस्य मातापितरौ नानुग्राह्योऽस्ति कश्चन 005c कर्मसाक्षी प्रजानां यस्तेन कालेन संहृताः 006a हेतुमात्रमिदं तस्य कालस्य पुरुषर्षभ 006c यद्धन्ति भूतैर्भूतानि तदस्मै रूपमैश्वरम् 007a कर्ममूर्त्यात्मकं विद्धि साक्षिणं शुभपापयोः 007c सुखदुःखगुणोदर्कं कालं कालफलप्रदम् 008a तेषामपि महाबाहो कर्माणि परिचिन्तय 008c विनाशहेतुकारित्वे यैस्ते कालवशं गताः 009a आत्मनश्च विजानीहि नियमव्रतशीलताम् 009c यदा त्वमीदृशं कर्म विधिनाक्रम्य कारितः 010a त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे 010c कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् 011a पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः 011c यदृच्छया विनाशं च शोकहर्षावनर्थकौ 012a व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव 012c तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर 013a इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा 013c असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः 014a तेषामपि श्रीनिमित्तं महानासीत्समुच्छ्रयः 014c युद्धं वर्षसहस्राणि द्वात्रिंशदभवत्किल 015a एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् 015c जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे 016a तथैव पृथिवीं लब्ध्वा ब्राह्मणा वेदपारगाः 016c संश्रिता दानवानां वै साह्यार्थे दर्पमोहिताः 017a शालावृका इति ख्यातास्त्रिषु लोकेषु भारत 017c अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः 018a धर्मव्युच्छित्तिमिच्छन्तो येऽधर्मस्य प्रवर्तकाः 018c हन्तव्यास्ते दुरात्मानो देवैर्दैत्या इवोल्बणाः 019a एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् 019c कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम् 020a अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप 020c धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता 021a तस्मात्संस्तम्भयात्मानं श्रुतवानसि पाण्डव 021c देवैः पूर्वगतं मार्गमनुयातोऽसि भारत 022a न हीदृशा गमिष्यन्ति नरकं पाण्डवर्षभ 022c भ्रातॄनाश्वासयैतांस्त्वं सुहृदश्च परन्तप 023a यो हि पापसमारम्भे कार्ये तद्भावभावितः 023c कुर्वन्नपि तथैव स्यात्कृत्वा च निरपत्रपः 024a तस्मिंस्तत्कलुषं सर्वं समाप्तमिति शब्दितम् 024c प्रायश्चित्तं न तस्यास्ति ह्रासो वा पापकर्मणः 025a त्वं तु शुक्लाभिजातीयः परदोषेण कारितः 025c अनिच्छमानः कर्मेदं कृत्वा च परितप्यसे 026a अश्वमेधो महायज्ञः प्रायश्चित्तमुदाहृतम् 026c तमाहर महाराज विपाप्मैवं भविष्यसि 027a मरुद्भिः सह जित्वारीन्मघवान्पाकशासनः 027c एकैकं क्रतुमाहृत्य शतकृत्वः शतक्रतुः 028a पूतपाप्मा जितस्वर्गो लोकान्प्राप्य सुखोदयान् 028c मरुद्गणवृतः शक्रः शुशुभे भासयन्दिशः 029a स्वर्गलोके महीयन्तमप्सरोभिः शचीपतिम् 029c ऋषयः पर्युपासन्ते देवाश्च विबुधेश्वरम् 030a सोऽयं त्वमिह सङ्क्रान्तो विक्रमेण वसुन्धराम् 030c निर्जिताश्च महीपाला विक्रमेण त्वयानघ 031a तेषां पुराणि राष्ट्राणि गत्वा राजन्सुहृद्वृतः 031c भ्रातॄन्पुत्रांश्च पौत्रांश्च स्वे स्वे राज्येऽभिषेचय 032a बालानपि च गर्भस्थान्सान्त्वानि समुदाचरन् 032c रञ्जयन्प्रकृतीः सर्वाः परिपाहि वसुन्धराम् 033a कुमारो नास्ति येषां च कन्यास्तत्राभिषेचय 033c कामाशयो हि स्त्रीवर्गः शोकमेवं प्रहास्यति 034a एवमाश्वासनं कृत्वा सर्वराष्ट्रेषु भारत 034c यजस्व वाजिमेधेन यथेन्द्रो विजयी पुरा 035a अशोच्यास्ते महात्मानः क्षत्रियाः क्षत्रियर्षभ 035c स्वकर्मभिर्गता नाशं कृतान्तबलमोहिताः 036a अवाप्तः क्षत्रधर्मस्ते राज्यं प्राप्तमकल्मषम् 036c चरस्व धर्मं कौन्तेय श्रेयान्यः प्रेत्य भाविकः