001 युधिष्ठिर उवाच 001a हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा 001c श्वशुरा गुरवश्चैव मातुलाः सपितामहाः 002a क्षत्रियाश्च महात्मानः सम्बन्धिसुहृदस्तथा 002c वयस्या ज्ञातयश्चैव भ्रातरश्च पितामह 003a बहवश्च मनुष्येन्द्रा नानादेशसमागताः 003c घातिता राज्यलुब्धेन मयैकेन पितामह 004a तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः 004c असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन 005a दह्याम्यनिशमद्याहं चिन्तयानः पुनः पुनः 005c हीनां पार्थिवसिंहैस्तैः श्रीमद्भिः पृथिवीमिमाम् 006a दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् 006c कोटिशश्च नरानन्यान्परितप्ये पितामह 007a का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति 007c विहीनानां स्वतनयैः पतिभिर्भ्रातृभिस्तथा 008a अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान् 008c आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले 009a अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः 009c त्यक्त्वा प्राणान्प्रियान्सर्वा गमिष्यन्ति यमक्षयम् 010a वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः 010c व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् 011a ते वयं सुहृदो हत्वा कृत्वा पापमनन्तकम् 011c नरके निपतिष्यामो ह्यधःशिरस एव च 012a शरीराणि विमोक्ष्यामस्तपसोग्रेण सत्तम 012c आश्रमांश्च विशेषांस्त्वं ममाचक्ष्व पितामह