001 वैशम्पायन उवाच 001a तूष्णीम्भूतं तु राजानं शोचमानं युधिष्ठिरम् 001c तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनोऽब्रवीत् 002a प्रजानां पालनं धर्मो राज्ञां राजीवलोचन 002c धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् 003a अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम् 003c ब्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः 004a तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ 004c तस्य धर्मस्य कृत्स्नस्य क्षत्रियः परिरक्षिता 005a तथा यः प्रतिहन्त्यस्य शासनं विषये नरः 005c स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः 006a प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः 006c भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन 006e पापान्सर्वैरुपायैस्तान्नियच्छेद्घातयेत वा 007a अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् 007c धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा 008a ते त्वया धर्महन्तारो निहताः सपदानुगाः 008c स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव 008e राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः 009 युधिष्ठिर उवाच 009a न तेऽभिशङ्के वचनं यद्ब्रवीषि तपोधन 009c अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर 010a मया ह्यवध्या बहवो घातिता राज्यकारणात् 010c तान्यकार्याणि मे ब्रह्मन्दहन्ति च तपन्ति च 011 व्यास उवाच 011a ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत 011c हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् 012a ईश्वरेण नियुक्ता हि साध्वसाधु च पार्थिव 012c कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् 013a यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने 013c छेत्तुरेव भवेत्पापं परशोर्न कथञ्चन 014a अथ वा तदुपादानात्प्राप्नुयुः कर्मणः फलम् 014c दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते 015a न चैतदिष्टं कौन्तेय यदन्येन फलं कृतम् 015c प्राप्नुयादिति तस्माच्च ईश्वरे तन्निवेशय 016a अथ वा पुरुषः कर्ता कर्मणोः शुभपापयोः 016c न परं विद्यते तस्मादेवमन्यच्छुभं कुरु 017a न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते 017c दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते 018a यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम् 018c एवमप्यशुभं कर्म न भूतं न भविष्यति 019a अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापयोः 019c अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् 020a अथापि लोके कर्माणि समावर्तन्त भारत 020c शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः 021a एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम् 021c त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः 022a स्वधर्मे वर्तमानस्य सापवादेऽपि भारत 022c एवमात्मपरित्यागस्तव राजन्न शोभनः 023a विहितानीह कौन्तेय प्रायश्चित्तानि कर्मिणाम् 023c शरीरवांस्तानि कुर्यादशरीरः पराभवेत् 024a तद्राजञ्जीवमानस्त्वं प्रायश्चित्तं चरिष्यसि 024c प्रायश्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत