001 वैशम्पायन उवाच 001a ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत 001c भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् 002a एवमुक्तः स च मुनिर्धर्मराजेन नारदः 002c आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति 003a एवमेतन्महाराज यथायं केशवोऽब्रवीत् 003c कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः 004a अहं च पर्वतश्चैव स्वस्रीयो मे महामुनिः 004c वस्तुकामावभिगतौ सृञ्जयं जयतां वरम् 005a तत्र सम्पूजितौ तेन विधिदृष्टेन कर्मणा 005c सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि 006a व्यतिक्रान्तासु वर्षासु समये गमनस्य च 006c पर्वतो मामुवाचेदं काले वचनमर्थवत् 007a आवामस्य नरेन्द्रस्य गृहे परमपूजितौ 007c उषितौ समये ब्रह्मंश्चिन्त्यतामत्र साम्प्रतम् 008a ततोऽहमब्रुवं राजन्पर्वतं शुभदर्शनम् 008c सर्वमेतत्त्वयि विभो भागिनेयोपपद्यते 009a वरेण छन्द्यतां राजा लभतां यद्यदिच्छति 009c आवयोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे 010a तत आहूय राजानं सृञ्जयं शुभदर्शनम् 010c पर्वतोऽनुमतं वाक्यमुवाच मुनिपुङ्गवः 011a प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसम्भृतैः 011c आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय 012a देवानामविहिंसायां यद्भवेन्मानुषक्षमम् 012c तद्गृहाण महाराज पूजार्हो नौ मतो भवान् 013 सृञ्जय उवाच 013a प्रीतौ भवन्तौ यदि मे कृतमेतावता मम 013c एष एव परो लाभो निर्वृत्तो मे महाफलः 014 नारद उवाच 014a तमेवंवादिनं भूयः पर्वतः प्रत्यभाषत 014c वृणीष्व राजन्सङ्कल्पो यस्ते हृदि चिरं स्थितः 015 सृञ्जय उवाच 015a अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् 015c आयुष्मन्तं महाभागं देवराजसमद्युतिम् 016 पर्वत उवाच 016a भविष्यत्येष ते कामो न त्वायुष्मान्भविष्यति 016c देवराजाभिभूत्यर्थं सङ्कल्पो ह्येष ते हृदि 017a सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति 017c रक्ष्यश्च देवराजात्स देवराजसमद्युतिः 018 नारद उवाच 018a तच्छ्रुत्वा सृञ्जयो वाक्यं पर्वतस्य महात्मनः 018c प्रसादयामास तदा नैतदेवं भवेदिति 019a आयुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने 019c न च तं पर्वतः किञ्चिदुवाचेन्द्रव्यपेक्षया 020a तमहं नृपतिं दीनमब्रुवं पुनरेव तु 020c स्मर्तव्योऽहं महाराज दर्शयिष्यामि ते स्मृतः 021a अहं ते दयितं पुत्रं प्रेतराजवशं गतम् 021c पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते 022a एवमुक्त्वा तु नृपतिं प्रयातौ स्वो यथेप्सितम् 022c सृञ्जयश्च यथाकामं प्रविवेश स्वमन्दिरम् 023a सृञ्जयस्याथ राजर्षेः कस्मिंश्चित्कालपर्यये 023c जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव 024a ववृधे स यथाकालं सरसीव महोत्पलम् 024c बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् 025a तदद्भुततमं लोके पप्रथे कुरुसत्तम 025c बुबुधे तच्च देवेन्द्रो वरदानं महात्मनोः 026a ततस्त्वभिभवाद्भीतो बृहस्पतिमते स्थितः 026c कुमारस्यान्तरप्रेक्षी बभूव बलवृत्रहा 027a चोदयामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् 027c व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो 028a विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति 028c सृञ्जयस्य सुतो वज्र यथैनं पर्वतो ददौ 029a एवमुक्तस्तु शक्रेण वज्रः परपुरञ्जयः 029c कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत 030a सृञ्जयोऽपि सुतं प्राप्य देवराजसमद्युतिम् 030c हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा 031a ततो भागीरथीतीरे कदाचिद्वननिर्झरे 031c धात्रीद्वितीयो बालः स क्रीडार्थं पर्यधावत 032a पञ्चवर्षकदेशीयो बालो नागेन्द्रविक्रमः 032c सहसोत्पतितं व्याघ्रमाससाद महाबलः 033a तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः 033c व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे 034a हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत 034c शार्दूलो देवराजस्य माययान्तर्हितस्तदा 035a धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् 035c अभ्यधावत तं देशं स्वयमेव महीपतिः 036a स ददर्श गतासुं तं शयानं पीतशोणितम् 036c कुमारं विगतानन्दं निशाकरमिव च्युतम् 037a स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् 037c पुत्रं रुधिरसंसिक्तं पर्यदेवयदातुरः 038a ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः 038c अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः 039a ततः स राजा सस्मार मामन्तर्गतमानसः 039c तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम् 040a स मयैतानि वाक्यानि श्रावितः शोकलालसः 040c यानि ते यदुवीरेण कथितानि महीपते 041a सञ्जीवितश्चापि मया वासवानुमते तदा 041c भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा 042a अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महायशाः 042c चित्तं प्रसादयामास पितुर्मातुश्च वीर्यवान् 043a कारयामास राज्यं स पितरि स्वर्गते विभुः 043c वर्षाणामेकशतवत्सहस्रं भीमविक्रमः 044a तत इष्ट्वा महायज्ञैर्बहुभिर्भूरिदक्षिणैः 044c तर्पयामास देवांश्च पितॄंश्चैव महाद्युतिः 045a उत्पाद्य च बहून्पुत्रान्कुलसन्तानकारिणः 045c कालेन महता राजन्कालधर्ममुपेयिवान् 046a स त्वं राजेन्द्र सञ्जातं शोकमेतन्निवर्तय 046c यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः 047a पितृपैतामहं राज्यमास्थाय दुरमुद्वह 047c इष्ट्वा पुण्यैर्महायज्ञैरिष्टाल्ँलोकानवाप्स्यसि