001 युधिष्ठिर उवाच 001a स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् 001c पर्वतेन किमर्थं च दत्तः केन ममार च 002a यदा वर्षसहस्रायुस्तदा भवति मानवः 002c कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः 003a उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् 003c तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् 004 वासुदेव उवाच 004a अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर 004c नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ 005a मातुलो भागिनेयश्च देवलोकादिहागतौ 005c विहर्तुकामौ सम्प्रीत्या मानुष्येषु पुरा प्रभू 006a हविःपवित्रभोज्येन देवभोज्येन चैव ह 006c नारदो मातुलश्चैव भागिनेयश्च पर्वतः 007a तावुभौ तपसोपेताववनीतलचारिणौ 007c भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् 008a प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः 008c यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः 008e अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत् 009a तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ 009c सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः 010a आवां भवति वत्स्यावः कञ्चित्कालं हिताय ते 010c यथावत्पृथिवीपाल आवयोः प्रगुणीभव 010e तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह 011a ततः कदाचित्तौ राजा महात्मानौ तथागतौ 011c अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी 012a एकैव मम कन्यैषा युवां परिचरिष्यति 012c दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता 012e सुकुमारी कुमारी च पद्मकिञ्जल्कसन्निभा 013a परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम् 013c कन्ये विप्रावुपचर देववत्पितृवच्च ह 014a सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी 014c यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह 015a तस्यास्तथोपचारेण रूपेणाप्रतिमेन च 015c नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत 016a ववृधे च ततस्तस्य हृदि कामो महात्मनः 016c यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः 017a न च तं भागिनेयाय पर्वताय महात्मने 017c शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् 018a तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत् 018c कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् 019a कृत्वा समयमव्यग्रो भवान्वै सहितो मया 019c यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः 020a अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् 020c भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम् 021a न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा 021c सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् 022a ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् 022c अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः 023a शप्स्ये तस्मात्सुसङ्क्रुद्धो भवन्तं तं निबोध मे 023c सुकुमारी च ते भार्या भविष्यति न संशयः 024a वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो 024c सन्द्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् 025a स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा 025c अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः 026a तपसा ब्रह्मचर्येण सत्येन च दमेन च 026c युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि 027a तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ 027c प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ 028a पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः 028c पूज्यमानो यथान्यायं तेजसा स्वेन भारत 029a अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् 029c धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् 030a सा तु कन्या यथाशापं नारदं तं ददर्श ह 030c पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम् 031a सुकुमारी च देवर्षिं वानरप्रतिमाननम् 031c नैवावमन्यत तदा प्रीतिमत्येव चाभवत् 032a उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् 032c देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला 033a ततः कदाचिद्भगवान्पर्वतोऽनुससार ह 033c वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम् 034a ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा 034c भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो 035a तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा 035c कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् 036a त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि 036c इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात् 036e अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह 037a तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान् 037c निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी 038a श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् 038c सुकुमारी प्रदुद्राव परपत्यभिशङ्कया 039a तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् 039c अब्रवीत्तव भर्तैष नात्र कार्या विचारणा 040a ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः 040c तवैवाभेद्यहृदयो मा ते भूदत्र संशयः 041a सानुनीता बहुविधं पर्वतेन महात्मना 041c शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता 041e पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान् 042a प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः 042c एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम