001 वैशम्पायन उवाच 001a अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे 001c गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः 002a ज्ञातिशोकाभिसन्तप्तो धर्मराजः परन्तपः 002c एष शोकार्णवे मग्नस्तमाश्वासय माधव 003a सर्वे स्म ते संशयिताः पुनरेव जनार्दन 003c अस्य शोकं महाबाहो प्रणाशयितुमर्हसि 004a एवमुक्तस्तु गोविन्दो विजयेन महात्मना 004c पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः 005a अनतिक्रमणीयो हि धर्मराजस्य केशवः 005c बाल्यात्प्रभृति गोविन्दः प्रीत्या चाभ्यधिकोऽर्जुनात् 006a सम्प्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् 006c शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् 007a शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् 007c व्याकोशमिव विस्पष्टं पद्मं सूर्यविबोधितम् 008a मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् 008c न हि ते सुलभा भूयो ये हतास्मिन्रणाजिरे 009a स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने 009c एवं ते क्षत्रिया राजन्ये व्यतीता महारणे 010a सर्वे ह्यभिमुखाः शूरा विगता रणशोभिनः 010c नैषां कश्चित्पृष्ठतो वा पलायन्वापि पातितः 011a सर्वे त्यक्त्वात्मनः प्राणान्युद्ध्वा वीरा महाहवे 011c शस्त्रपूता दिवं प्राप्ता न ताञ्शोचितुमर्हसि 012a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 012c सृञ्जयं पुत्रशोकार्तं यथायं प्राह नारदः 013a सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय 013c अविमुक्तं चरिष्यामस्तत्र का परिदेवना 014a महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु 014c गच्छावधानं नृपते ततो दुःखं प्रहास्यसि 015a मृतान्महानुभावांस्त्वं श्रुत्वैव तु महीपतीन् 015c श्रुत्वापनय सन्तापं शृणु विस्तरशश्च मे 016a आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि 016c यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः 016e देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः 017a यः स्पर्धामनयच्छक्रं देवराजं शतक्रतुम् 017c शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः 017e संवर्तो याजयामास यं पीडार्थं बृहस्पतेः 018a यस्मिन्प्रशासति सतां नृपतौ नृपसत्तम 018c अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी 019a आविक्षितस्य वै सत्रे विश्वे देवाः सभासदः 019c मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः 020a मरुद्गणा मरुत्तस्य यत्सोममपिबन्त ते 020c देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः 021a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 021c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 022a सुहोत्रं चेद्वैतिथिनं मृतं सृञ्जय शुश्रुम 022c यस्मै हिरण्यं ववृषे मघवान्परिवत्सरम् 023a सत्यनामा वसुमती यं प्राप्यासीज्जनाधिप 023c हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे 024a कूर्मान्कर्कटकान्नक्रान्मकराञ्शिंशुकानपि 024c नदीष्वपातयद्राजन्मघवा लोकपूजितः 025a हैरण्यान्पतितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् 025c सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः 026a तद्धिरण्यमपर्यन्तमावृत्तं कुरुजाङ्गले 026c ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः 027a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 027c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 027e अदक्षिणमयज्वानं श्वैत्य संशाम्य मा शुचः 028a अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय 028c यः सहस्रं सहस्राणां श्वेतानश्वानवासृजत् 029a सहस्रं च सहस्राणां कन्या हेमविभूषिताः 029c ईजानो वितते यज्ञे दक्षिणामत्यकालयत् 030a शतं शतसहस्राणां वृषाणां हेममालिनाम् 030c गवां सहस्रानुचरं दक्षिणामत्यकालयत् 031a अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ 031c अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 032a यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुनः 032c देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः 033a न जातो जनिता चान्यः पुमान्यस्तत्प्रदास्यति 033c यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु 034a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 034c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 035a शिबिमौशीनरं चैव मृतं शुश्रुम सृञ्जय 035c य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् 036a महता रथघोषेण पृथिवीमनुनादयन् 036c एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः 037a यावदद्य गवाश्वं स्यादारण्यैः पशुभिः सह 037c तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे 038a नोद्यन्तारं धुरं तस्य कञ्चिन्मेने प्रजापतिः 038c न भूतं न भविष्यन्तं सर्वराजसु भारत 038e अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् 039a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 039c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 039e अदक्षिणमयज्वानं तं वै संशाम्य मा शुचः 040a भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम 040c शाकुन्तलिं महेष्वासं भूरिद्रविणतेजसम् 041a यो बद्ध्वा त्रिंशतो ह्यश्वान्देवेभ्यो यमुनामनु 041c सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश 042a अश्वमेधसहस्रेण राजसूयशतेन च 042c इष्टवान्स महातेजा दौःषन्तिर्भरतः पुरा 043a भरतस्य महत्कर्म सर्वराजसु पार्थिवाः 043c खं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् 044a परं सहस्राद्यो बद्ध्वा हयान्वेदीं विचित्य च 044c सहस्रं यत्र पद्मानां कण्वाय भरतो ददौ 045a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 045c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 046a रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय 046c योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् 047a विधवा यस्य विषये नानाथाः काश्चनाभवन् 047c सर्वस्यासीत्पितृसमो रामो राज्यं यदान्वशात् 048a कालवर्षाश्च पर्जन्याः सस्यानि रसवन्ति च 048c नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति 049a प्राणिनो नाप्सु मज्जन्ति नानर्थे पावकोऽदहत् 049c न व्यालजं भयं चासीद्रामे राज्यं प्रशासति 050a आसन्वर्षसहस्राणि तथा पुत्रसहस्रिकाः 050c अरोगाः सर्वसिद्धार्थाः प्रजा रामे प्रशासति 051a नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् 051c धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति 052a नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः 052c सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति 053a स चतुर्दश वर्षाणि वने प्रोष्य महातपाः 053c दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् 054a श्यामो युवा लोहिताक्षो मत्तवारणविक्रमः 054c दश वर्षसहस्राणि रामो राज्यमकारयत् 055a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 055c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 056a भगीरथं च राजानं मृतं शुश्रुम सृञ्जय 056c यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः 057a असुराणां सहस्राणि बहूनि सुरसत्तमः 057c अजयद्बाहुवीर्येण भगवान्पाकशासनः 058a यः सहस्रं सहस्राणां कन्या हेमविभूषिताः 058c ईजानो वितते यज्ञे दक्षिणामत्यकालयत् 059a सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः 059c रथे रथे शतं नागाः पद्मिनो हेममालिनः 060a सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः 060c गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् 061a उपह्वरे निवसतो यस्याङ्के निषसाद ह 061c गङ्गा भागीरथी तस्मादुर्वशी ह्यभवत्पुरा 062a भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् 062c त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी 063a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 063c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 064a दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय 064c यस्य कर्माणि भूरीणि कथयन्ति द्विजातयः 065a इमां वै वसुसम्पन्नां वसुधां वसुधाधिपः 065c ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः 066a तस्येह यजमानस्य यज्ञे यज्ञे पुरोहितः 066c सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् 067a यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः 067c तं देवाः कर्म कुर्वाणाः शक्रज्येष्ठा उपाश्रयन् 068a चषालो यस्य सौवर्णस्तस्मिन्यूपे हिरण्मये 068c ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा 069a अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् 069c सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् 070a एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे 070c यत्स्त्रियो हेमसम्पन्नाः पथि मत्ताः स्म शेरते 071a राजानमुग्रधन्वानं दिलीपं सत्यवादिनम् 071c येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः 072a त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने 072c स्वाध्यायघोषो ज्याघोषो दीयतामिति चैव हि 073a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 073c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 074a मान्धातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय 074c यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् 075a संवृद्धो युवनाश्वस्य जठरे यो महात्मनः 075c पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः 076a यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् 076c अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै 077a मामेव धास्यतीत्येवमिन्द्रो अभ्यवपद्यत 077c मान्धातेति ततस्तस्य नाम चक्रे शतक्रतुः 078a ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः 078c तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् 079a तं पिबन्पाणिमिन्द्रस्य समामह्ना व्यवर्धत 079c स आसीद्द्वादशसमो द्वादशाहेन पार्थिव 080a तमियं पृथिवी सर्वा एकाह्ना समपद्यत 080c धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि 081a य आङ्गारं हि नृपतिं मरुत्तमसितं गयम् 081c अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् 082a यौवनाश्वो यदाङ्गारं समरे समयोधयत् 082c विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे 083a यतः सूर्य उदेति स्म यत्र च प्रतितिष्ठति 083c सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते 084a अश्वमेधशतेनेष्ट्वा राजसूयशतेन च 084c अददाद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो महीपतिः 085a हैरण्यान्योजनोत्सेधानायतान्दशयोजनम् 085c अतिरिक्तान्द्विजातिभ्यो व्यभजन्नितरे जनाः 086a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 086c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 087a ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय 087c य इमां पृथिवीं सर्वां विजित्य सहसागराम् 088a शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्नृप 088c ईजानः क्रतुभिः पुण्यैः पर्यगच्छद्वसुन्धराम् 089a इष्ट्वा क्रतुसहस्रेण वाजिमेधशतेन च 089c तर्पयामास देवेन्द्रं त्रिभिः काञ्चनपर्वतैः 090a व्यूढे देवासुरे युद्धे हत्वा दैतेयदानवान् 090c व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः 091a अन्तेषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् 091c पूरुं राज्येऽभिषिच्य स्वे सदारः प्रस्थितो वनम् 092a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 092c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 093a अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय 093c यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तम 094a यः सहस्रं सहस्राणां राज्ञामयुत याजिनाम् 094c ईजानो वितते यज्ञे ब्राह्मणेभ्यः समाहितः 095a नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे 095c इत्यम्बरीषं नाभागमन्वमोदन्त दक्षिणाः 096a शतं राजसहस्राणि शतं राजशतानि च 096c सर्वेऽश्वमेधैरीजानास्तेऽभ्ययुर्दक्षिणायनम् 097a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 097c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 098a शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय 098c यस्य भार्यासहस्राणां शतमासीन्महात्मनः 099a सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवः 099c हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः 100a शतं कन्या राजपुत्रमेकैकं पृष्ठतोऽन्वयुः 100c कन्यां कन्यां शतं नागा नागं नागं शतं रथाः 101a रथं रथं शतं चाश्वा देशजा हेममालिनः 101c अश्वमश्वं शतं गावो गां गां तद्वदजाविकम् 102a एतद्धनमपर्यन्तमश्वमेधे महामखे 102c शशबिन्दुर्महाराज ब्राह्मणेभ्यः समादिशत् 103a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 103c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 104a गयमामूर्तरयसं मृतं शुश्रुम सृञ्जय 104c यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् 105a यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः 105c ददतो मेऽक्षया चास्तु धर्मे श्रद्धा च वर्धताम् 106a मनो मे रमतां सत्ये त्वत्प्रसादाद्धुताशन 106c लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् 107a दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः 107c अयजत्स महातेजाः सहस्रं परिवत्सरान् 108a शतं गवां सहस्राणि शतमश्वशतानि च 108c उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् 109a तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि 109c पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ 110a सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् 110c दक्षिणामददद्राजा वाजिमेधमहामखे 111a यावत्यः सिकता राजन्गङ्गायाः पुरुषर्षभ 111c तावतीरेव गाः प्रादादामूर्तरयसो गयः 112a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 112c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 113a रन्तिदेवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय 113c सम्यगाराध्य यः शक्रं वरं लेभे महायशाः 114a अन्नं च नो बहु भवेदतिथींश्च लभेमहि 114c श्रद्धा च नो मा व्यगमन्मा च याचिष्म कञ्चन 115a उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् 115c ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् 116a महानदी चर्मराशेरुत्क्लेदात्सुस्रुवे यतः 116c ततश्चर्मण्वतीत्येवं विख्याता सा महानदी 117a ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः 117c तुभ्यं तुभ्यं निष्कमिति यत्राक्रोशन्ति वै द्विजाः 117e सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्स्म प्रपद्यते 118a अन्वाहार्योपकरणं द्रव्योपकरणं च यत् 118c घटाः स्थाल्यः कटाहाश्च पात्र्यश्च पिठरा अपि 118e न तत्किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः 119a साङ्कृते रन्तिदेवस्य यां रात्रिमवसद्गृहे 119c आलभ्यन्त शतं गावः सहस्राणि च विंशतिः 120a तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः 120c सूपभूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा 121a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 121c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 122a सगरं च महात्मानं मृतं शुश्रुम सृञ्जय 122c ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् 123a षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतोऽन्वयुः 123c नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव 124a एकच्छत्रा मही यस्य प्रणता ह्यभवत्पुरा 124c योऽश्वमेधसहस्रेण तर्पयामास देवताः 125a यः प्रादात्काञ्चनस्तम्भं प्रासादं सर्वकाञ्चनम् 125c पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसङ्कुलम् 126a द्विजातिभ्योऽनुरूपेभ्यः कामानुच्चावचांस्तथा 126c यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः 127a खानयामास यः कोपात्पृथिवीं सागराङ्किताम् 127c यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः 128a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 128c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 129a राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय 129c यमभ्यषिञ्चन्सम्भूय महारण्ये महर्षयः 130a प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः 130c क्षताच्च नस्त्रायतीति स तस्मात्क्षत्रियः स्मृतः 131a पृथुं वैन्यं प्रजा दृष्ट्वा रक्ताः स्मेति यदब्रुवन् 131c ततो राजेति नामास्य अनुरागादजायत 132a अकृष्टपच्या पृथिवी पुटके पुटके मधु 132c सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः 133a अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः 133c यथाभिकाममवसन्क्षेत्रेषु च गृहेषु च 134a आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः 134c सरितश्चानुदीर्यन्त ध्वजसङ्गश्च नाभवत् 135a हैरण्यांस्त्रिनलोत्सेधान्पर्वतानेकविंशतिम् 135c ब्राह्मणेभ्यो ददौ राजा योऽश्वमेधे महामखे 136a स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया 136c पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः 137a किं वै तूष्णीं ध्यायसि सृञ्जय त्वं न मे राजन्वाचमिमां शृणोषि 137c न चेन्मोघं विप्रलप्तं मयेदं पथ्यं मुमूर्षोरिव सम्यगुक्तम् 138 सृञ्जय उवाच 138a शृणोमि ते नारद वाचमेतां विचित्रार्थां स्रजमिव पुण्यगन्धाम् 138c राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तां शोकनिर्णाशनार्थम् 139a न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैव त्वां नारदाहं विशोकः 139c शुश्रूषे ते वचनं ब्रह्मवादिन्न ते तृप्याम्यमृतस्येव पानात् 140a अमोघदर्शिन्मम चेत्प्रसादं सुताघदग्धस्य विभो प्रकुर्याः 140c मृतस्य सञ्जीवनमद्य मे स्यात्तव प्रसादात्सुतसङ्गमश्च 141 नारद उवाच 141a यस्ते पुत्रो दयितोऽयं वियातः स्वर्णष्ठीवी यमदात्पर्वतस्ते 141c पुनस्ते तं पुत्रमहं ददामि हिरण्यनाभं वर्षसहस्रिणं च