001 वैशम्पायन उवाच 001a ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः 001c ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत् 002 व्यास उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर 003a अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः 003c संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः 004 जनक उवाच 004a आगमे यदि वापाये ज्ञातीनां द्रविणस्य च 004c नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता 005 अश्मोवाच 005a उत्पन्नमिममात्मानं नरस्यानन्तरं ततः 005c तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च 006a तेषामन्यतरापत्तौ यद्यदेवोपसेवते 006c तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः 007a अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः 007c इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति 008a स प्रसिक्तमना भोगान्विसृज्य पितृसञ्चितान् 008c परिक्षीणः परस्वानामादानं साधु मन्यते 009a तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् 009c प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः 010a ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः 010c परेण ते वर्षशतान्न भविष्यन्ति पार्थिव 011a तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत् 011c सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः 012a मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः 012c अनिष्टोपनिपातो वा तृतीयं नोपपद्यते 013a एवमेतानि दुःखानि तानि तानीह मानवम् 013c विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च 014a जरामृत्यू ह भूतानि खादितारौ वृकाविव 014c बलिनां दुर्बलानां च ह्रस्वानां महतामपि 015a न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः 015c अपि सागरपर्यन्तां विजित्येमां वसुन्धराम् 016a सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम् 016c प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते 017a पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप 017c अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा 018a सुप्रियैर्विप्रयोगश्च सम्प्रयोगस्तथाप्रियैः 018c अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते 019a प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च 019c प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम् 020a गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः 020c तथैव सुखदुःखानि विधानमनुवर्तते 021a आसनं शयनं यानमुत्थानं पानभोजनम् 021c नियतं सर्वभूतानां कालेनैव भवन्त्युत 022a वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः 022c स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः 023a कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च 023c सौभाग्यमुपभोगश्च भवितव्येन लभ्यते 024a सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम् 024c बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम् 025a व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम् 025c रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा 026a निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना 026c दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः 027a दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः 027c दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप 028a अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः 028c समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत् 029a प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते 029c काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप 030a अहमेतत्करोमीति मन्यते कालचोदितः 030c यद्यदिष्टमसन्तोषाद्दुरात्मा पापमाचरन् 031a स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः 031c दृश्यन्ते चापि बहवः सम्प्रसक्ता बहुश्रुताः 032a इति कालेन सर्वार्थानीप्सितानीप्सितानि च 032c स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते 033a वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे 033c ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा 034a शीतमुष्णं तथा वर्षं कालेन परिवर्तते 034c एवमेव मनुष्याणां सुखदुःखे नरर्षभ 035a नौषधानि न शास्त्राणि न होमा न पुनर्जपाः 035c त्रायन्ते मृत्युनोपेतं जरया वापि मानवम् 036a यथा काष्ठं च काष्ठं च समेयातां महोदधौ 036c समेत्य च व्यतीयातां तद्वद्भूतसमागमः 037a ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः 037c ये चानाथाः परान्नादाः कालस्तेषु समक्रियः 038a मातृपितृसहस्राणि पुत्रदारशतानि च 038c संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् 039a नैवास्य कश्चिद्भविता नायं भवति कस्यचित् 039c पथि सङ्गतमेवेदं दारबन्धुसुहृद्गणैः 040a क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः 040c कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः 040e अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ 041a न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः 041c आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता 042a कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत् 042c यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत् 043a सन्निमज्जज्जगदिदं गम्भीरे कालसागरे 043c जरामृत्युमहाग्राहे न कश्चिदवबुध्यते 044a आयुर्वेदमधीयानाः केवलं सपरिग्रहम् 044c दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः 045a ते पिबन्तः कषायांश्च सर्पींषि विविधानि च 045c न मृत्युमतिवर्तन्ते वेलामिव महोदधिः 046a रसायनविदश्चैव सुप्रयुक्तरसायनाः 046c दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः 047a तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः 047c दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ 048a न ह्यहानि निवर्तन्ते न मासा न पुनः समाः 048c जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः 049a सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः 049c नरोऽवशः समभ्येति सर्वभूतनिषेवितम् 050a देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः 050c पथि सङ्गतमेवेदं दारैरन्यैश्च बन्धुभिः 051a नायमत्यन्तसंवासो लभ्यते जातु केनचित् 051c अपि स्वेन शरीरेण किमुतान्येन केनचित् 052a क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः 052c न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च 053a न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा 053c आगमस्तु सतां चक्षुर्नृपते तमिहाचर 054a चरितब्रह्मचर्यो हि प्रजायेत यजेत च 054c पितृदेवमहर्षीणामानृण्यायानसूयकः 055a स यज्ञशीलः प्रजने निविष्टः प्राग्ब्रह्मचारी प्रविभक्तपक्षः 055c आराधयन्स्वर्गमिमं च लोकं परं च मुक्त्वा हृदयव्यलीकम् 056a सम्यग्घि धर्मं चरतो नृपस्य द्रव्याणि चाप्याहरतो यथावत् 056c प्रवृत्तचक्रस्य यशोऽभिवर्धते सर्वेषु लोकेषु चराचरेषु 057 व्यास उवाच 057a इत्येवमाज्ञाय विदेहराजो वाक्यं समग्रं परिपूर्णहेतुः 057c अश्मानमामन्त्र्य विशुद्धबुद्धिर्ययौ गृहं स्वं प्रति शान्तशोकः 058a तथा त्वमप्यच्युत मुञ्च शोकमुत्तिष्ठ शक्रोपम हर्षमेहि 058c क्षात्रेण धर्मेण मही जिता ते तां भुङ्क्ष्व कुन्तीसुत मा विषादीः