001 युधिष्ठिर उवाच 001a अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च 001c धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ 002a वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे 002c तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे 003a न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् 003c राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम् 004a यस्याङ्के क्रीडमानेन मया वै परिवर्तितम् 004c स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः 005a यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः 005c कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम् 006a जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम् 006c कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः 007a प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः 007c घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत् 008a यः स बाणधनुष्पाणिर्योधयामास भार्गवम् 008c बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे 009a समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः 009c कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे 010a येन चोग्रायुधो राजा चक्रवर्ती दुरासदः 010c दग्धः शस्त्रप्रतापेन स मया युधि घातितः 011a स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् 011c न बाणैः पातयामास सोऽर्जुनेन निपातितः 012a यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् 012c तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम 012e येन संवर्धिता बाला येन स्म परिरक्षिताः 013a स मया राज्यलुब्धेन पापेन गुरुघातिना 013c अल्पकालस्य राज्यस्य कृते मूढेन घातितः 014a आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः 014c अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति 015a तन्मे दहति गात्राणि यन्मां गुरुरभाषत 015c सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः 015e सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान् 016a कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया 016c सुभृशं राज्यलुब्धेन पापेन गुरुघातिना 017a सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे 017c अश्वत्थामा हत इति कुञ्जरे विनिपातिते 017e कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम् 018a अघातयं च यत्कर्णं समरेष्वपलायिनम् 018c ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः 019a अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु 019c प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम् 020a तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् 020c कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा 021a द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् 021c शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव 022a सोऽहमागस्करः पापः पृथिवीनाशकारकः 022c आसीन एवमेवेदं शोषयिष्ये कलेवरम् 023a प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम् 023c जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत् 024a न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथञ्चन 024c शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन 025a यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः 025c सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम् 026 वैशम्पायन उवाच 026a तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् 026c मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः 027a अतिवेलं महाराज न शोकं कर्तुमर्हसि 027c पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो 028a संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् 028c बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च 029a सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः 029c संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् 030a सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् 030c भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत 031a नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः 031c न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम् 032a यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु 032c अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप