001 वैशम्पायन उवाच 001a द्वैपायनवचः श्रुत्वा कुपिते च धनञ्जये 001c व्यासमामन्त्र्य कौन्तेयः प्रत्युवाच युधिष्ठिरः 002a न पार्थिवमिदं राज्यं न च भोगाः पृथग्विधाः 002c प्रीणयन्ति मनो मेऽद्य शोको मां नर्दयत्ययम् 003a श्रुत्वा च वीरहीनानामपुत्राणां च योषिताम् 003c परिदेवयमानानां शान्तिं नोपलभे मुने 004a इत्युक्तः प्रत्युवाचेदं व्यासो योगविदां वरः 004c युधिष्ठिरं महाप्राज्ञं धर्मज्ञो वेदपारगः 005a न कर्मणा लभ्यते चिन्तया वा नाप्यस्य दाता पुरुषस्य कश्चित् 005c पर्याययोगाद्विहितं विधात्रा कालेन सर्वं लभते मनुष्यः 006a न बुद्धिशास्त्राध्ययनेन शक्यं प्राप्तुं विशेषैर्मनुजैरकाले 006c मूर्खोऽपि प्राप्नोति कदाचिदर्थान्कालो हि कार्यं प्रति निर्विशेषः 007a नाभूतिकाले च फलं ददाति शिल्पं न मन्त्राश्च तथौषधानि 007c तान्येव कालेन समाहितानि सिध्यन्ति चेध्यन्ति च भूतिकाले 008a कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर्जलदानुपैति 008c कालेन पद्मोत्पलवज्जलं च कालेन पुष्यन्ति नगा वनेषु 009a कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः 009c नाकालतः पुष्पफलं नगानां नाकालवेगाः सरितो वहन्ति 010a नाकालमत्ताः खगपन्नगाश्च मृगद्विपाः शैलमहाग्रहाश्च 010c नाकालतः स्त्रीषु भवन्ति गर्भा नायान्त्यकाले शिशिरोष्णवर्षाः 011a नाकालतो म्रियते जायते वा नाकालतो व्याहरते च बालः 011c नाकालतो यौवनमभ्युपैति; नाकालतो रोहति बीजमुप्तम् 012a नाकालतो भानुरुपैति योगं नाकालतोऽस्तं गिरिमभ्युपैति 012c नाकालतो वर्धते हीयते च चन्द्रः समुद्रश्च महोर्मिमाली 013a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 013c गीतं राज्ञा सेनजिता दुःखार्तेन युधिष्ठिर 014a सर्वानेवैष पर्यायो मर्त्यान्स्पृशति दुस्तरः 014c कालेन परिपक्वा हि म्रियन्ते सर्वमानवाः 015a घ्नन्ति चान्यान्नरा राजंस्तानप्यन्ये नरास्तथा 015c सञ्ज्ञैषा लौकिकी राजन्न हिनस्ति न हन्यते 016a हन्तीति मन्यते कश्चिन्न हन्तीत्यपि चापरे 016c स्वभावतस्तु नियतौ भूतानां प्रभवाप्ययौ 017a नष्टे धने वा दारे वा पुत्रे पितरि वा मृते 017c अहो कष्टमिति ध्यायञ्शोकस्यापचितिं चरेत् 018a स किं शोचसि मूढः सञ्शोच्यः किमनुशोचसि 018c पश्य दुःखेषु दुःखानि भयेषु च भयान्यपि 019a आत्मापि चायं न मम सर्वापि पृथिवी मम 019c यथा मम तथान्येषामिति पश्यन्न मुह्यति 020a शोकस्थानसहस्राणि हर्षस्थानशतानि च 020c दिवसे दिवसे मूढमाविशन्ति न पण्डितम् 021a एवमेतानि कालेन प्रियद्वेष्याणि भागशः 021c जीवेषु परिवर्तन्ते दुःखानि च सुखानि च 022a दुःखमेवास्ति न सुखं तस्मात्तदुपलभ्यते 022c तृष्णार्तिप्रभवं दुःखं दुःखार्तिप्रभवं सुखम् 023a सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् 023c न नित्यं लभते दुःखं न नित्यं लभते सुखम् 024a सुखमन्ते हि दुःखानां दुःखमन्ते सुखस्य च 024c तस्मादेतद्द्वयं जह्याद्य इच्छेच्छाश्वतं सुखम् 025a यन्निमित्तं भवेच्छोकस्तापो वा दुःखमूर्छितः 025c आयासो वापि यन्मूलस्तदेकाङ्गमपि त्यजेत् 026a सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम् 026c प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः 027a ईषदप्यङ्ग दाराणां पुत्राणां वा चराप्रियम् 027c ततो ज्ञास्यसि कः कस्य केन वा कथमेव वा 028a ये च मूढतमा लोके ये च बुद्धेः परं गताः 028c त एव सुखमेधन्ते मध्यः क्लेशेन युज्यते 029a इत्यब्रवीन्महाप्राज्ञो युधिष्ठिर स सेनजित् 029c परावरज्ञो लोकस्य धर्मवित्सुखदुःखवित् 030a सुखी परस्य यो दुःखे न जातु स सुखी भवेत् 030c दुःखानां हि क्षयो नास्ति जायते ह्यपरात्परम् 031a सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च 031c पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो नैव हृष्येन्न कुप्येत् 032a दीक्षां यज्ञे पालनं युद्धमाहुर्योगं राष्ट्रे दण्डनीत्या च सम्यक् 032c वित्तत्यागं दक्षिणानां च यज्ञे सम्यग्ज्ञानं पावनानीति विद्यात् 033a रक्षन्राष्ट्रं बुद्धिपूर्वं नयेन सन्त्यक्तात्मा यज्ञशीलो महात्मा 033c सर्वाल्ँलोकान्धर्ममूर्त्या चरंश्चाप्यूर्ध्वं देहान्मोदते देवलोके 034a जित्वा सङ्ग्रामान्पालयित्वा च राष्ट्रं सोमं पीत्वा वर्धयित्वा प्रजाश्च 034c युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणो मोदते देवलोके 035a सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राष्ट्रं पालयित्वा च राजा 035c चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे पूतात्मा वै मोदते देवलोके 036a यस्य वृत्तं नमस्यन्ति स्वर्गस्थस्यापि मानवाः 036c पौरजानपदामात्याः स राजा राजसत्तमः