001 वैशम्पायन उवाच 001a पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत् 001c अजातशत्रुं कौन्तेयमिदं वचनमर्थवत् 002a अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् 002c मनोरथा महाराज ये तत्रासन्युधिष्ठिर 003a तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः 003c प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः 004a अरण्ये दुःखवसतिरनुभूता तपस्विभिः 004c दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे 005a धर्ममर्थं च कामं च भ्रातृभिः सह भारत 005c अनुभूय ततः पश्चात्प्रस्थातासि विशाम्पते 006a अतिथीनां च पितॄणां देवतानां च भारत 006c आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि 007a सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन 007c ततः पश्चान्महाराज गमिष्यसि परां गतिम् 008a भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः 008c सम्प्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि 009a विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन 009c शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः 010a आददानस्य च धनं निग्रहं च युधिष्ठिर 010c समानं धर्मकुशलाः स्थापयन्ति नरेश्वर 011a देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः 011c शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते 012a आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति 012c प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः 013a निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः 013c निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः 013e कामक्रोधावनादृत्य पितेव समदर्शनः 014a दैवेनोपहते राजा कर्मकाले महाद्युते 014c प्रमादयति तत्कर्म न तत्राहुरतिक्रमम् 015a तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः 015c पापैः सह न सन्दध्याद्राष्ट्रं पण्यं न कारयेत् 016a शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर 016c गोमतो धनिनश्चैव परिपाल्या विशेषतः 017a व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः 017c गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः 018a अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः 018c एनसा युज्यते राजा दुर्दान्त इति चोच्यते 019a येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे 019c तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम् 020a सुमन्त्रिते सुनीते च विधिवच्चोपपादिते 020c पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर 021a विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः 021c कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् 022a अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् 022c यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव 023a शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः 023c असहायस्य धीरस्य निर्जितस्य युधिष्ठिर 024a यत्कर्म वै निग्रहे शात्रवाणां योगश्चाग्र्यः पालने मानवानाम् 024c कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे वाजिग्रीवो मोदते देवलोके 025a सन्त्यक्तात्मा समरेष्वाततायी शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः 025c अश्वग्रीवः कर्मशीलो महात्मा संसिद्धात्मा मोदते देवलोके 026a धनुर्यूपो रशना ज्या शरः स्रुक्स्रुवः खड्गो रुधिरं यत्र चाज्यम् 026c रथो वेदी कामगो युद्धमग्निश्चातुर्होत्रं चतुरो वाजिमुख्याः 027a हुत्वा तस्मिन्यज्ञवह्नावथारीन्पापान्मुक्तो राजसिंहस्तरस्वी 027c प्राणान्हुत्वा चावभृथे रणे स वाजिग्रीवो मोदते देवलोके 028a राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन सन्त्यक्तात्मा यज्ञशीलो महात्मा 028c सर्वाल्ँलोकान्व्याप्य कीर्त्या मनस्वी वाजिग्रीवो मोदते देवलोके 029a दैवीं सिद्धिं मानुषीं दण्डनीतिं योगन्यायैः पालयित्वा महीं च 029c तस्माद्राजा धर्मशीलो महात्मा हयग्रीवो मोदते स्वर्गलोके 030a विद्वांस्त्यागी श्रद्दधानः कृतज्ञस्त्यक्त्वा लोकं मानुषं कर्म कृत्वा 030c मेधाविनां विदुषां सम्मतानां तनुत्यजां लोकमाक्रम्य राजा 031a सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राष्ट्रं पालयित्वा महात्मा 031c चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे वाजिग्रीवो मोदते देवलोके 032a जित्वा सङ्ग्रामान्पालयित्वा प्रजाश्च सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् 032c युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणो मोदते देवलोके 033a वृत्तं यस्य श्लाघनीयं मनुष्याः सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः 033c स्वर्गं जित्वा वीरलोकांश्च गत्वा सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा