001 युधिष्ठिर उवाच 001a भगवन्कर्मणा केन सुद्युम्नो वसुधाधिपः 001c संसिद्धिं परमां प्राप्तः श्रोतुमिच्छामि तं नृपम् 002 व्यास उवाच 002a अत्राप्युदाहरन्तीममितिहासं पुरातनम् 002c शङ्खश्च लिखितश्चास्तां भ्रातरौ संयतव्रतौ 003a तयोरावसथावास्तां रमणीयौ पृथक्पृथक् 003c नित्यपुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु 004a ततः कदाचिल्लिखितः शङ्खस्याश्रममागमत् 004c यदृच्छयापि शङ्खोऽथ निष्क्रान्तोऽभवदाश्रमात् 005a सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा 005c फलानि शातयामास सम्यक्परिणतान्युत 006a तान्युपादाय विस्रब्धो भक्षयामास स द्विजः 006c तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागमत् 007a भक्षयन्तं तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् 007c कुतः फलान्यवाप्तानि हेतुना केन खादसि 008a सोऽब्रवीद्भ्रातरं ज्येष्ठमुपस्पृश्याभिवाद्य च 008c इत एव गृहीतानि मयेति प्रहसन्निव 009a तमब्रवीत्तदा शङ्खस्तीव्रकोपसमन्वितः 009c स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् 009e गच्छ राजानमासाद्य स्वकर्म प्रथयस्व वै 010a अदत्तादानमेवेदं कृतं पार्थिवसत्तम 010c स्तेनं मां त्वं विदित्वा च स्वधर्ममनुपालय 010e शीघ्रं धारय चौरस्य मम दण्डं नराधिप 011a इत्युक्तस्तस्य वचनात्सुद्युम्नं वसुधाधिपम् 011c अभ्यगच्छन्महाबाहो लिखितः संशितव्रतः 012a सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् 012c अभ्यगच्छत्सहामात्यः पद्भ्यामेव नरेश्वरः 013a तमब्रवीत्समागत्य स राजा ब्रह्मवित्तमम् 013c किमागमनमाचक्ष्व भगवन्कृतमेव तत् 014a एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् 014c प्रतिश्रौषि करिष्येति श्रुत्वा तत्कर्तुमर्हसि 015a अनिसृष्टानि गुरुणा फलानि पुरुषर्षभ 015c भक्षितानि मया राजंस्तत्र मां शाधि माचिरम् 016 सुद्युम्न उवाच 016a प्रमाणं चेन्मतो राजा भवतो दण्डधारणे 016c अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ 017a स भवानभ्यनुज्ञातः शुचिकर्मा महाव्रतः 017c ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः 018 व्यास उवाच 018a छन्द्यमानोऽपि ब्रह्मर्षिः पार्थिवेन महात्मना 018c नान्यं वै वरयामास तस्माद्दण्डादृते वरम् 019a ततः स पृथिवीपालो लिखितस्य महात्मनः 019c करौ प्रच्छेदयामास धृतदण्डो जगाम सः 020a स गत्वा भ्रातरं शङ्खमार्तरूपोऽब्रवीदिदम् 020c धृतदण्डस्य दुर्भुद्धेर्भगवन्क्षन्तुमर्हसि 021 शङ्ख उवाच 021a न कुप्ये तव धर्मज्ञ न च दूषयसे मम 021c धर्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता 022a स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि 022c देवान्पितॄनृषींश्चैव मा चाधर्मे मनः कृथाः 023 व्यास उवाच 023a तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा 023c अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे 024a प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ 024c ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ 025a ततस्तमब्रवीच्छङ्खस्तपसेदं कृतं मया 025c मा च तेऽत्र विशङ्का भूद्दैवमेव विधीयते 026 लिखित उवाच 026a किं नु नाहं त्वया पूतः पूर्वमेव महाद्युते 026c यस्य ते तपसो वीर्यमीदृशं द्विजसत्तम 027 शङ्ख उवाच 027a एवमेतन्मया कार्यं नाहं दण्डधरस्तव 027c स च पूतो नरपतिस्त्वं चापि पितृभिः सह 028 व्यास उवाच 028a स राजा पाण्डवश्रेष्ठ श्रेष्ठो वै तेन कर्मणा 028c प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा 029a एष धर्मः क्षत्रियाणां प्रजानां परिपालनम् 029c उत्पथेऽस्मिन्महाराज मा च शोके मनः कृथाः 030a भ्रातुरस्य हितं वाक्यं शृणु धर्मज्ञसत्तम 030c दण्ड एव हि राजेन्द्र क्षत्रधर्मो न मुण्डनम्