001 वैशम्पायन उवाच 001a एवमुक्तस्तु कौन्तेयो गुडाकेशेन भारत 001c नोवाच किञ्चित्कौरव्यस्ततो द्वैपायनोऽब्रवीत् 002a बीभत्सोर्वचनं सम्यक्सत्यमेतद्युधिष्ठिर 002c शास्त्रदृष्टः परो धर्मः स्मृतो गार्हस्थ्य आश्रमः 003a स्वधर्मं चर धर्मज्ञ यथाशास्त्रं यथाविधि 003c न हि गार्हस्थ्यमुत्सृज्य तवारण्यं विधीयते 004a गृहस्थं हि सदा देवाः पितर ऋषयस्तथा 004c भृत्याश्चैवोपजीवन्ति तान्भजस्व महीपते 005a वयांसि पशवश्चैव भूतानि च महीपते 005c गृहस्थैरेव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृही 006a सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः 006c तं चराविमनाः पार्थ दुश्चरं दुर्बलेन्द्रियैः 007a वेदज्ञानं च ते कृत्स्नं तपश्च चरितं महत् 007c पितृपैतामहे राज्ये धुरमुद्वोढुमर्हसि 008a तपो यज्ञस्तथा विद्या भैक्षमिन्द्रियनिग्रहः 008c ध्यानमेकान्तशीलत्वं तुष्टिर्दानं च शक्तितः 009a ब्राह्मणानां महाराज चेष्टाः संसिद्धिकारिकाः 009c क्षत्रियाणां च वक्ष्यामि तवापि विदितं पुनः 010a यज्ञो विद्या समुत्थानमसन्तोषः श्रियं प्रति 010c दण्डधारणमत्युग्रं प्रजानां परिपालनम् 011a वेदज्ञानं तथा कृत्स्नं तपः सुचरितं तथा 011c द्रविणोपार्जनं भूरि पात्रेषु प्रतिपादनम् 012a एतानि राज्ञां कर्माणि सुकृतानि विशाम्पते 012c इमं लोकममुं लोकं साधयन्तीति नः श्रुतम् 013a तेषां ज्यायस्तु कौन्तेय दण्डधारणमुच्यते 013c बलं हि क्षत्रिये नित्यं बले दण्डः समाहितः 014a एताश्चेष्टाः क्षत्रियाणां राजन्संसिद्धिकारिकाः 014c अपि गाथामिमां चापि बृहस्पतिरभाषत 015a भूमिरेतौ निगिरति सर्पो बिलशयानिव 015c राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् 016a सुद्युम्नश्चापि राजर्षिः श्रूयते दण्डधारणात् 016c प्राप्तवान्परमां सिद्धिं दक्षः प्राचेतसो यथा