001 वैशम्पायन उवाच 001a तस्मिन्वाक्यान्तरे वाक्यं पुनरेवार्जुनोऽब्रवीत् 001c विषण्णमनसं ज्येष्ठमिदं भ्रातरमीश्वरम् 002a क्षत्रधर्मेण धर्मज्ञ प्राप्य राज्यमनुत्तमम् 002c जित्वा चारीन्नरश्रेष्ठ तप्यते किं भवान्भृशम् 003a क्षत्रियाणां महाराज सङ्ग्रामे निधनं स्मृतम् 003c विशिष्टं बहुभिर्यज्ञैः क्षत्रधर्ममनुस्मर 004a ब्राह्मणानां तपस्त्यागः प्रेत्यधर्मविधिः स्मृतः 004c क्षत्रियाणां च विहितं सङ्ग्रामे निधनं विभो 005a क्षत्रधर्मो महारौद्रः शस्त्रनित्य इति स्मृतः 005c वधश्च भरतश्रेष्ठ काले शस्त्रेण संयुगे 006a ब्राह्मणस्यापि चेद्राजन्क्षत्रधर्मेण तिष्ठतः 006c प्रशस्तं जीवितं लोके क्षत्रं हि ब्रह्मसंस्थितम् 007a न त्यागो न पुनर्याच्ञा न तपो मनुजेश्वर 007c क्षत्रियस्य विधीयन्ते न परस्वोपजीवनम् 008a स भवान्सर्वधर्मज्ञः सर्वात्मा भरतर्षभ 008c राजा मनीषी निपुणो लोके दृष्टपरावरः 009a त्यक्त्वा सन्तापजं शोकं दंशितो भव कर्मणि 009c क्षत्रियस्य विशेषेण हृदयं वज्रसंहतम् 010a जित्वारीन्क्षत्रधर्मेण प्राप्य राज्यमकण्टकम् 010c विजितात्मा मनुष्येन्द्र यज्ञदानपरो भव 011a इन्द्रो वै ब्रह्मणः पुत्रः कर्मणा क्षत्रियोऽभवत् 011c ज्ञातीनां पापवृत्तीनां जघान नवतीर्नव 012a तच्चास्य कर्म पूज्यं हि प्रशस्यं च विशाम्पते 012c तेन चेन्द्रत्वमापेदे देवानामिति नः श्रुतम् 013a स त्वं यज्ञैर्महाराज यजस्व बहुदक्षिणैः 013c यथैवेन्द्रो मनुष्येन्द्र चिराय विगतज्वरः 014a मा त्वमेवङ्गते किञ्चित्क्षत्रियर्षभ शोचिथाः 014c गतास्ते क्षत्रधर्मेण शस्त्रपूताः परां गतिम् 015a भवितव्यं तथा तच्च यद्वृत्तं भरतर्षभ 015c दिष्टं हि राजशार्दूल न शक्यमतिवर्तितुम्