001 देवस्थान उवाच 001a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 001c इन्द्रेण समये पृष्टो यदुवाच बृहस्पतिः 002a सन्तोषो वै स्वर्गतमः सन्तोषः परमं सुखम् 002c तुष्टेर्न किञ्चित्परतः सुसम्यक्परितिष्ठति 003a यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः 003c तदात्मज्योतिरात्मैव स्वात्मनैव प्रसीदति 004a न बिभेति यदा चायं यदा चास्मान्न बिभ्यति 004c कामद्वेषौ च जयति तदात्मानं प्रपश्यति 005a यदासौ सर्वभूतानां न क्रुध्यति न दुष्यति 005c कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा 006a एवं कौन्तेय भूतानि तं तं धर्मं तथा तथा 006c तदा तदा प्रपश्यन्ति तस्माद्बुध्यस्व भारत 007a अन्ये शमं प्रशंसन्ति व्यायाममपरे तथा 007c नैकं न चापरं केचिदुभयं च तथापरे 008a यज्ञमेके प्रशंसन्ति सन्न्यासमपरे जनाः 008c दानमेके प्रशंसन्ति केचिदेव प्रतिग्रहम् 008e केचित्सर्वं परित्यज्य तूष्णीं ध्यायन्त आसते 009a राज्यमेके प्रशंसन्ति सर्वेषां परिपालनम् 009c हत्वा भित्त्वा च छित्त्वा च केचिदेकान्तशीलिनः 010a एतत्सर्वं समालोक्य बुधानामेष निश्चयः 010c अद्रोहेणैव भूतानां यो धर्मः स सतां मतः 011a अद्रोहः सत्यवचनं संविभागो धृतिः क्षमा 011c प्रजनः स्वेषु दारेषु मार्दवं ह्रीरचापलम् 012a धनं धर्मप्रधानेष्टं मनुः स्वायम्भुवोऽब्रवीत् 012c तस्मादेवं प्रयत्नेन कौन्तेय परिपालय 013a यो हि राज्ये स्थितः शश्वद्वशी तुल्यप्रियाप्रियः 013c क्षत्रियो यज्ञशिष्टाशी राजशास्त्रार्थतत्त्ववित् 014a असाधुनिग्रहरतः साधूनां प्रग्रहे रतः 014c धर्मे वर्त्मनि संस्थाप्य प्रजा वर्तेत धर्मवित् 015a पुत्रसङ्क्रामितश्रीस्तु वने वन्येन वर्तयन् 015c विधिना श्रामणेनैव कुर्यात्कालमतन्द्रितः 016a य एवं वर्तते राजा राजधर्मविनिश्चितः 016c तस्यायं च परश्चैव लोकः स्यात्सफलो नृप 016e निर्वाणं तु सुदुष्पारं बहुविघ्नं च मे मतम् 017a एवं धर्ममनुक्रान्ताः सत्यदानतपःपराः 017c आनृशंस्यगुणैर्युक्ताः कामक्रोधविवर्जिताः 018a प्रजानां पालने युक्ता दममुत्तममास्थिताः 018c गोब्राह्मणार्थं युद्धेन सम्प्राप्ता गतिमुत्तमाम् 019a एवं रुद्राः सवसवस्तथादित्याः परन्तप 019c साध्या राजर्षिसङ्घाश्च धर्ममेतं समाश्रिताः 019e अप्रमत्तास्ततः स्वर्गं प्राप्ताः पुण्यैः स्वकर्मभिः