001 वैशम्पायन उवाच 001a तस्मिन्वाक्यान्तरे वक्ता देवस्थानो महातपाः 001c अभिनीततरं वाक्यमित्युवाच युधिष्ठिरम् 002a यद्वचः फल्गुनेनोक्तं न ज्यायोऽस्ति धनादिति 002c अत्र ते वर्तयिष्यामि तदेकाग्रमनाः शृणु 003a अजातशत्रो धर्मेण कृत्स्ना ते वसुधा जिता 003c तां जित्वा न वृथा राजंस्त्वं परित्यक्तुमर्हसि 004a चतुष्पदी हि निःश्रेणी कर्मण्येषा प्रतिष्ठिता 004c तां क्रमेण महाबाहो यथावज्जय पार्थिव 005a तस्मात्पार्थ महायज्ञैर्यजस्व बहुदक्षिणैः 005c स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे 006a कर्मनिष्ठांस्तु बुध्येथास्तपोनिष्ठांश्च भारत 006c वैखानसानां राजेन्द्र वचनं श्रूयते यथा 007a ईहते धनहेतोर्यस्तस्यानीहा गरीयसी 007c भूयान्दोषः प्रवर्धेत यस्तं धनमपाश्रयेत् 008a कृच्छ्राच्च द्रव्यसंहारं कुर्वन्ति धनकारणात् 008c धनेन तृषितोऽबुद्ध्या भ्रूणहत्यां न बुध्यते 009a अनर्हते यद्ददाति न ददाति यदर्हते 009c अनर्हार्हापरिज्ञानाद्दानधर्मोऽपि दुष्करः 010a यज्ञाय सृष्टानि धनानि धात्रा यष्टादिष्टः पुरुषो रक्षिता च 010c तस्मात्सर्वं यज्ञ एवोपयोज्यं धनं ततोऽनन्तर एव कामः 011a यज्ञैरिन्द्रो विविधैरन्नवद्भिर्देवान्सर्वानभ्ययान्महौजाः 011c तेनेन्द्रत्वं प्राप्य विभ्राजतेऽसौ तस्माद्यज्ञे सर्वमेवोपयोज्यम् 012a महादेवः सर्वमेधे महात्मा हुत्वात्मानं देवदेवो विभूतः 012c विश्वाल्ँलोकान्व्याप्य विष्टभ्य कीर्त्या विरोचते द्युतिमान्कृत्तिवासाः 013a आविक्षितः पार्थिवो वै मरुत्तः स्वृद्ध्या मर्त्यो योऽजयद्देवराजम् 013c यज्ञे यस्य श्रीः स्वयं सन्निविष्टा यस्मिन्भाण्डं काञ्चनं सर्वमासीत् 014a हरिश्चन्द्रः पार्थिवेन्द्रः श्रुतस्ते यज्ञैरिष्ट्वा पुण्यकृद्वीतशोकः 014c ऋद्ध्या शक्रं योऽजयन्मानुषः संस्तस्माद्यज्ञे सर्वमेवोपयोज्यम्