001 युधिष्ठिर उवाच 001a वेदाहं तात शास्त्राणि अपराणि पराणि च 001c उभयं वेदवचनं कुरु कर्म त्यजेति च 002a आकुलानि च शास्त्राणि हेतुभिश्चित्रितानि च 002c निश्चयश्चैव यन्मात्रो वेदाहं तं यथाविधि 003a त्वं तु केवलमस्त्रज्ञो वीरव्रतमनुष्ठितः 003c शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथञ्चन 004a शास्त्रार्थसूक्ष्मदर्शी यो धर्मनिश्चयकोविदः 004c तेनाप्येवं न वाच्योऽहं यदि धर्मं प्रपश्यसि 005a भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया 005c न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन 006a युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च 006c न त्वया सदृशः कश्चित्त्रिषु लोकेषु विद्यते 007a धर्मसूक्ष्मं तु यद्वाक्यं तत्र दुष्प्रतरं त्वया 007c धनञ्जय न मे बुद्धिमभिशङ्कितुमर्हसि 008a युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया 008c समासविस्तरविदां न तेषां वेत्सि निश्चयम् 009a तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् 009c परं परं ज्याय एषां सैषा नैःश्रेयसी गतिः 010a न त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति 010c अत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः 011a तपःस्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः 011c ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः 012a अजातश्मश्रवो धीरास्तथान्ये वनवासिनः 012c अनन्ता अधना एव स्वाध्यायेन दिवं गताः 013a उत्तरेण तु पन्थानमार्या विषयनिग्रहात् 013c अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः 014a दक्षिणेन तु पन्थानं यं भास्वन्तं प्रपश्यसि 014c एते क्रियावतां लोका ये श्मशानानि भेजिरे 015a अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः 015c तस्मात्त्यागः प्रधानेष्टः स तु दुःखः प्रवेदितुम् 016a अनुसृत्य तु शास्त्राणि कवयः समवस्थिताः 016c अपीह स्यादपीह स्यात्सारासारदिदृक्षया 017a वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च 017c विपाट्य कदलीस्कन्धं सारं ददृशिरे न ते 018a अथैकान्तव्युदासेन शरीरे पञ्चभौतिके 018c इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः 019a अग्राह्यश्चक्षुषा सोऽपि अनिर्देश्यं च तद्गिरा 019c कर्महेतुपुरस्कारं भूतेषु परिवर्तते 020a कल्याणगोचरं कृत्वा मनस्तृष्णां निगृह्य च 020c कर्मसन्ततिमुत्सृज्य स्यान्निरालम्बनः सुखी 021a अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते 021c कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि 022a पूर्वशास्त्रविदो ह्येवं जनाः पश्यन्ति भारत 022c क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि 023a भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः 023c दृढपूर्वश्रुता मूढा नैतदस्तीति वादिनः 024a अमृतस्यावमन्तारो वक्तारो जनसंसदि 024c चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः 025a यान्वयं नाभिजानीमः कस्ताञ्ज्ञातुमिहार्हति 025c एवं प्राज्ञान्सतश्चापि महतः शास्त्रवित्तमान् 026a तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् 026c त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित्