001 वैशम्पायन उवाच 001a तूष्णीम्भूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् 001c सन्तप्तः शोकदुःखाभ्यां राज्ञो वाक्शल्यपीडितः 002a कथयन्ति पुरावृत्तमितिहासमिमं जनाः 002c विदेहराज्ञः संवादं भार्यया सह भारत 003a उत्सृज्य राज्यं भैक्षार्थं कृतबुद्धिं जनेश्वरम् 003c विदेहराजं महिषी दुःखिता प्रत्यभाषत 004a धनान्यपत्यं मित्राणि रत्नानि विविधानि च 004c पन्थानं पावनं हित्वा जनको मौण्ड्यमास्थितः 005a तं ददर्श प्रिया भार्या भैक्ष्यवृत्तिमकिञ्चनम् 005c धानामुष्टिमुपासीनं निरीहं गतमत्सरम् 006a तमुवाच समागम्य भर्तारमकुतोभयम् 006c क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः 007a कथमुत्सृज्य राज्यं स्वं धनधान्यसमाचितम् 007c कापालीं वृत्तिमास्थाय धानामुष्टिर्वनेऽचरः 008a प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव 008c यद्राज्यं महदुत्सृज्य स्वल्पे तुष्यसि पार्थिव 009a नैतेनातिथयो राजन्देवर्षिपितरस्तथा 009c शक्यमद्य त्वया भर्तुं मोघस्तेऽयं परिश्रमः 010a देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव 010c सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः 011a यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः 011c भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भृतिमिच्छसि 012a श्रियं हित्वा प्रदीप्तां त्वं श्ववत्सम्प्रति वीक्ष्यसे 012c अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया 013a अशीतिर्धर्मकामास्त्वां क्षत्रियाः पर्युपासते 013c त्वदाशामभिकाङ्क्षन्त्यः कृपणाः फलहेतुकाः 014a ताश्च त्वं विफलाः कुर्वन्काल्ँलोकान्नु गमिष्यसि 014c राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु 015a नैव तेऽस्ति परो लोको नापरः पापकर्मणः 015c धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् 016a स्रजो गन्धानलङ्कारान्वासांसि विविधानि च 016c किमर्थमभिसन्त्यज्य परिव्रजसि निष्क्रियः 017a निपानं सर्वभूतानां भूत्वा त्वं पावनं महत् 017c आढ्यो वनस्पतिर्भूत्वा सोऽद्यान्यान्पर्युपाससे 018a खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत 018c बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् 019a य इमां कुण्डिकां भिन्द्यात्त्रिविष्टब्धं च ते हरेत् 019c वासश्चापहरेत्तस्मिन्कथं ते मानसं भवेत् 020a यस्त्वयं सर्वमुत्सृज्य धानामुष्टिपरिग्रहः 020c यदानेन समं सर्वं किमिदं मम दीयते 020e धानामुष्टिरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति 021a का वाहं तव को मे त्वं कोऽद्य ते मय्यनुग्रहः 021c प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् 021e प्रासादं शयनं यानं वासांस्याभरणानि च 022a श्रिया निराशैरधनैस्त्यक्तमित्रैरकिञ्चनैः 022c सौखिकैः सम्भृतानर्थान्यः सन्त्यजसि किं नु तत् 023a योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि 023c तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते 024a सदैव याचमानेषु सत्सु दम्भविवर्जिषु 024c एतेषु दक्षिणा दत्ता दावाग्नाविव दुर्हुतम् 025a जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति 025c सदैव याचमानो वै तथा शाम्यति न द्विजः 026a सतां च वेदा अन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा 026c न चेद्दाता भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः 027a अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च 027c अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् 028a गृहस्थेभ्योऽभिनिर्वृत्ता गृहस्थानेव संश्रिताः 028c प्रभवं च प्रतिष्ठां च दान्ता निन्दन्त आसते 029a त्यागान्न भिक्षुकं विद्यान्न मौण्ड्यान्न च याचनात् 029c ऋजुस्तु योऽर्थं त्यजति तं सुखं विद्धि भिक्षुकम् 030a असक्तः सक्तवद्गच्छन्निःसङ्गो मुक्तबन्धनः 030c समः शत्रौ च मित्रे च स वै मुक्तो महीपते 031a परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः 031c सिता बहुविधैः पाशैः सञ्चिन्वन्तो वृथामिषम् 032a त्रयीं च नाम वार्तां च त्यक्त्वा पुत्रांस्त्यजन्ति ये 032c त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः 033a अनिष्कषाये काषायमीहार्थमिति विद्धि तत् 033c धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः 034a काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् 034c बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः 035a अग्न्याधेयानि गुर्वर्थान्क्रतून्सपशुदक्षिणान् 035c ददात्यहरहः पूर्वं को नु धर्मतरस्ततः 036a तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते 036c सोऽप्यासीन्मोहसम्पन्नो मा मोहवशमन्वगाः 037a एवं धर्ममनुक्रान्तं सदा दानपरैर्नरैः 037c आनृशंस्यगुणोपेतैः कामक्रोधविवर्जिताः 038a पालयन्तः प्रजाश्चैव दानमुत्तममास्थिताः 038c इष्टाल्ँलोकानवाप्स्यामो ब्रह्मण्याः सत्यवादिनः