001 युधिष्ठिर उवाच 001a असन्तोषः प्रमादश्च मदो रागोऽप्रशान्तता 001c बलं मोहोऽभिमानश्च उद्वेगश्चापि सर्वशः 002a एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसि 002c निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव 003a य इमामखिलां भूमिं शिष्यादेको महीपतिः 003c तस्याप्युदरमेवैकं किमिदं त्वं प्रशंससि 004a नाह्ना पूरयितुं शक्या न मासेन नरर्षभ 004c अपूर्यां पूरयन्निच्छामायुषापि न शक्नुयात् 005a यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति 005c अल्पाहारतया त्वग्निं शमयौदर्यमुत्थितम् 005e जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् 006a मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि 006c अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् 007a योगक्षेमौ च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ 007c मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय 008a एकोदरकृते व्याघ्रः करोति विघसं बहु 008c तमन्येऽप्युपजीवन्ति मन्दवेगञ्चरा मृगाः 009a विषयान्प्रतिसंहृत्य सन्न्यासं कुरुते यतिः 009c न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा 010a पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा 010c अब्भक्षैर्वायुभक्षैश्च तैरयं नरको जितः 011a यश्चेमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः 011c तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः 012a सङ्कल्पेषु निरारम्भो निराशो निर्ममो भव 012c विशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् 013a निरामिषा न शोचन्ति शोचसि त्वं किमामिषम् 013c परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे 014a पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ 014c ईजानाः पितृयानेन देवयानेन मोक्षिणः 015a तपसा ब्रह्मचर्येण स्वाध्यायेन च पाविताः 015c विमुच्य देहान्वै भान्ति मृत्योरविषयं गताः 016a आमिषं बन्धनं लोके कर्मेहोक्तं तथामिषम् 016c ताभ्यां विमुक्तः पाशाभ्यां पदमाप्नोति तत्परम् 017a अपि गाथामिमां गीतां जनकेन वदन्त्युत 017c निर्द्वन्द्वेन विमुक्तेन मोक्षं समनुपश्यता 018a अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन 018c मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन 019a प्रज्ञाप्रासादमारुह्य नशोच्याञ्शोचतो जनान् 019c जगतीस्थानिवाद्रिस्थो मन्दबुद्धीनवेक्षते 020a दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् 020c अज्ञातानां च विज्ञानात्सम्बोधाद्बुद्धिरुच्यते 021a यस्तु वाचं विजानाति बहुमानमियात्स वै 021c ब्रह्मभावप्रसूतानां वैद्यानां भावितात्मनाम् 022a यदा भूतपृथग्भावमेकस्थमनुपश्यति 022c तत एव च विस्तारं ब्रह्म सम्पद्यते तदा 023a ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः 023c नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम्