001 वैशम्पायन उवाच 001a अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः 001c धैर्यमास्थाय तेजस्वी ज्येष्ठं भ्रातरमब्रवीत् 002a राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि 002c उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः 003a न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् 003c अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप 004a भवतस्तु प्रमोहेन सर्वं संशयितं कृतम् 004c विक्लवत्वं च नः प्राप्तमबलत्वं तथैव च 005a कथं हि राजा लोकस्य सर्वशास्त्रविशारदः 005c मोहमापद्यते दैन्याद्यथा कुपुरुषस्तथा 006a आगतिश्च गतिश्चैव लोकस्य विदिता तव 006c आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो 007a एवं गते महाराज राज्यं प्रति जनाधिप 007c हेतुमत्र प्रवक्ष्यामि तदिहैकमनाः शृणु 008a द्विविधो जायते व्याधिः शारीरो मानसस्तथा 008c परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते 009a शारीराज्जायते व्याधिर्मानसो नात्र संशयः 009c मानसाज्जायते व्याधिः शारीर इति निश्चयः 010a शारीरमानसे दुःखे योऽतीते अनुशोचति 010c दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते 011a शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः 011c तेषां गुणानां साम्यं च तदाहुः स्वस्थलक्षणम् 012a तेषामन्यतमोत्सेके विधानमुपदिष्यते 012c उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते 013a सत्त्वं रजस्तमश्चैव मानसाः स्युस्त्रयो गुणाः 013c हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते 014a कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति 014c कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति 015a स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च 015c न दुःखी सुखजातस्य न सुखी दुःखजस्य वा 016a स्मर्तुमर्हसि कौरव्य दिष्टं तु बलवत्तरम् 016c अथ वा ते स्वभावोऽयं येन पार्थिव कृष्यसे 017a दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् 017c मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि 018a प्रव्राजनं च नगरादजिनैश्च निवासनम् 018c महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि 019a जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् 019c सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि 019e पुनरज्ञातचर्यायां कीचकेन पदा वधम् 020a यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिन्दम 020c मनसैकेन ते युद्धमिदं घोरमुपस्थितम् 021a यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः 021c आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् 022a तस्मिन्ननिर्जिते युद्धे प्राणान्यदि ह मोक्ष्यसे 022c अन्यं देहं समास्थाय पुनस्तेनैव योत्स्यसे 023a तस्मादद्यैव गन्तव्यं युद्धस्य भरतर्षभ 023c एतज्जित्वा महाराज कृतकृत्यो भविष्यसि 024a एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् 024c पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् 025a दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि 025c द्रौपद्याः केशपक्षस्य दिष्ट्या त्वं पदवीं गतः 026a यजस्व वाजिमेधेन विधिवद्दक्षिणावता 026c वयं ते किङ्कराः पार्थ वासुदेवश्च वीर्यवान्