001 वैशम्पायन उवाच 001a याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् 001c अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् 002a दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति 002c दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः 003a धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप 003c कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते 004a दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते 004c एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम् 005a राजदण्डभयादेके पापाः पापं न कुर्वते 005c यमदण्डभयादेके परलोकभयादपि 006a परस्परभयादेके पापाः पापं न कुर्वते 006c एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् 007a दण्डस्यैव भयादेके न खादन्ति परस्परम् 007c अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् 008a यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि 008c दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः 009a वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् 009c दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते 010a असम्मोहाय मर्त्यानामर्थसंरक्षणाय च 010c मर्यादा स्थापिता लोके दण्डसञ्ज्ञा विशाम्पते 011a यत्र श्यामो लोहिताक्षो दण्डश्चरति सूनृतः 011c प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति 012a ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः 012c दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः 013a नाभीतो यजते राजन्नाभीतो दातुमिच्छति 013c नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति 014a नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् 014c नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् 015a नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः 015c इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत 016a य एव देवा हन्तारस्ताल्ँलोकोऽर्चयते भृशम् 016c हन्ता रुद्रस्तथा स्कन्दः शक्रोऽग्निर्वरुणो यमः 017a हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः 017c वसवो मरुतः साध्या विश्वेदेवाश्च भारत 018a एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः 018c न ब्रह्माणं न धातारं न पूषाणं कथञ्चन 019a मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् 019c यजन्ते मानवाः केचित्प्रशान्ताः सर्वकर्मसु 020a न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया 020c सत्त्वैः सत्त्वानि जीवन्ति दुर्बलैर्बलवत्तराः 021a नकुलो मूषकानत्ति बिडालो नकुलं तथा 021c बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा 022a तानत्ति पुरुषः सर्वान्पश्य धर्मो यथागतः 022c प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् 023a विधानं देवविहितं तत्र विद्वान्न मुह्यति 023c यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि 024a विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः 024c विना वधं न कुर्वन्ति तापसाः प्राणयापनम् 025a उदके बहवः प्राणाः पृथिव्यां च फलेषु च 025c न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात् 026a सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् 026c पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः 027a ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः 027c वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः 028a भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् 028c मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च 029a दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः 029c कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः 030a दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः 030c शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः 031a सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः 031c पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति 032a अन्धं तम इवेदं स्यान्न प्रज्ञायेत किञ्चन 032c दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी 033a येऽपि सम्भिन्नमर्यादा नास्तिका वेदनिन्दकाः 033c तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः 034a सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः 034c दण्डस्य हि भयाद्भीतो भोगायेह प्रकल्पते 035a चातुर्वर्ण्याप्रमोहाय सुनीतनयनाय च 035c दण्डो विधात्रा विहितो धर्मार्थावभिरक्षितुम् 036a यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च 036c अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च 037a न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते 037c न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् 038a विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः 038c ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् 039a न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः 039c विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् 040a चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः 040c न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् 041a न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः 041c युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् 042a न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् 042c तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत् 043a दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः 043c दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः 044a न तत्र कूटं पापं वा वञ्चना वापि दृश्यते 044c यत्र दण्डः सुविहितश्चरत्यरिविनाशनः 045a हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत् 045c हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् 046a यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः 046c कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च 047a सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः 047c संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् 048a अर्थे सर्वे समारम्भाः समायत्ता न संशयः 048c स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् 049a लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् 049c अहिंसा साधुहिंसेति श्रेयान्धर्मपरिग्रहः 050a नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः 050c उभयं सर्वकार्येषु दृश्यते साध्वसाधु च 051a पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् 051c कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च 052a एवं पर्याकुले लोके विपथे जर्जरीकृते 052c तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर 053a यज देहि प्रजा रक्ष धर्मं समनुपालय 053c अमित्राञ्जहि कौन्तेय मित्राणि परिपालय 054a मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत 054c न तत्र किल्बिषं किञ्चित्कर्तुर्भवति भारत 055a आततायी हि यो हन्यादाततायिनमागतम् 055c न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति 056a अवध्यः सर्वभूतानामन्तरात्मा न संशयः 056c अवध्ये चात्मनि कथं वध्यो भवति केनचित् 057a यथा हि पुरुषः शालां पुनः सम्प्रविशेन्नवाम् 057c एवं जीवः शरीराणि तानि तानि प्रपद्यते 058a देहान्पुराणानुत्सृज्य नवान्सम्प्रतिपद्यते 058c एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः