001 वैशम्पायन उवाच 001a अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे 001c भ्रातॄणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान् 002a महाभिजनसम्पन्ना श्रीमत्यायतलोचना 002c अभ्यभाषत राजेन्द्रं द्रौपदी योषितां वरा 003a आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम् 003c सिंहशार्दूलसदृशैर्वारणैरिव यूथपम् 004a अभिमानवती नित्यं विशेषेण युधिष्ठिरे 004c लालिता सततं राज्ञा धर्मज्ञा धर्मदर्शिनी 005a आमन्त्र्य विपुलश्रोणी साम्ना परमवल्गुना 005c भर्तारमभिसम्प्रेक्ष्य ततो वचनमब्रवीत् 006a इमे ते भ्रातरः पार्थ शुष्यन्त स्तोकका इव 006c वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे 007a नन्दयैतान्महाराज मत्तानिव महाद्विपान् 007c उपपन्नेन वाक्येन सततं दुःखभागिनः 008a कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः 008c भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान् 009a वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम् 009c सम्पूर्णां सर्वकामानामाहवे विजयैषिणः 010a विरथांश्च रथान्कृत्वा निहत्य च महागजान् 010c संस्तीर्य च रथैर्भूमिं ससादिभिररिन्दमाः 011a यजतां विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः 011c वनवासकृतं दुःखं भविष्यति सुखाय नः 012a इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर 012c कथमद्य पुनर्वीर विनिहंसि मनांस्युत 013a न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते 013c न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते 014a नादण्डः क्षत्रियो भाति नादण्डो भूतिमश्नुते 014c नादण्डस्य प्रजा राज्ञः सुखमेधन्ति भारत 015a मित्रता सर्वभूतेषु दानमध्ययनं तपः 015c ब्राह्मणस्यैष धर्मः स्यान्न राज्ञो राजसत्तम 016a असतां प्रतिषेधश्च सतां च परिपालनम् 016c एष राज्ञां परो धर्मः समरे चापलायनम् 017a यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये 017c निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते 018a न श्रुतेन न दानेन न सान्त्वेन न चेज्यया 018c त्वयेयं पृथिवी लब्धा नोत्कोचेन तथाप्युत 019a यत्तद्बलममित्राणां तथा वीरसमुद्यतम् 019c हस्त्यश्वरथसम्पन्नं त्रिभिरङ्गैर्महत्तरम् 020a रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च 020c तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुन्धराम् 021a जम्बूद्वीपो महाराज नानाजनपदायुतः 021c त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो 022a जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप 022c अपरेण महामेरोर्दण्डेन मृदितस्त्वया 023a क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप 023c पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया 024a उत्तरेण महामेरोः शाकद्वीपेन सम्मितः 024c भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया 025a द्वीपाश्च सान्तरद्वीपा नानाजनपदालयाः 025c विगाह्य सागरं वीर दण्डेन मृदितास्त्वया 026a एतान्यप्रतिमानि त्वं कृत्वा कर्माणि भारत 026c न प्रीयसे महाराज पूज्यमानो द्विजातिभिः 027a स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत 027c ऋषभानिव सम्मत्तान्गजेन्द्रानूर्जितानिव 028a अमरप्रतिमाः सर्वे शत्रुसाहाः परन्तपाः 028c एकोऽपि हि सुखायैषां क्षमः स्यादिति मे मतिः 029a किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः 029c समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने 030a अनृतं माब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी 030c युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे 031a हत्वा राजसहस्राणि बहून्याशुपराक्रमः 031c तद्व्यर्थं सम्प्रपश्यामि मोहात्तव जनाधिप 032a येषामुन्मत्तको ज्येष्ठः सर्वे तस्योपचारिणः 032c तवोन्मादेन राजेन्द्र सोन्मादाः सर्वपाण्डवाः 033a यदि हि स्युरनुन्मत्ता भ्रातरस्ते जनाधिप 033c बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुन्धराम् 034a कुरुते मूढमेवं हि यः श्रेयो नाधिगच्छति 034c धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च 034e भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति 035a साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम 035c तथा विनिकृतामित्रैर्याहमिच्छामि जीवितुम् 036a एतेषां यतमानानामुत्पद्यन्ते तु सम्पदः 036c त्वं तु सर्वां महीं लब्ध्वा कुरुषे स्वयमापदम् 037a यथास्तां सम्मतौ राज्ञां पृथिव्यां राजसत्तमौ 037c मान्धाता चाम्बरीषश्च तथा राजन्विराजसे 038a प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन् 038c सपर्वतवनद्वीपां मा राजन्विमना भव 039a यजस्व विविधैर्यज्ञैर्जुह्वन्नग्नीन्प्रयच्छ च 039c पुराणि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम