001 सहदेव उवाच 001a न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत 001c शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा 002a बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः 002c यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः 003a शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः 003c यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः 004a द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् 004c ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् 005a ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ 005c अदृश्यमानौ भूतानि योधयेतामसंशयम् 006a अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत 006c भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते 007a अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा 007c नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः 008a तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः 008c पन्था निषेवितः सद्भिः स निषेव्यो विजानता 009a लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् 009c न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम् 010a अथ वा वसतो राजन्वने वन्येन जीवतः 010c द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते 011a बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत 011c ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् 012a भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः 012c दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि 013a तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम् 013c तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम