001 वैशम्पायन उवाच 001a अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् 001c राजानमभिसम्प्रेक्ष्य सर्वधर्मभृतां वरम् 002a अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिन्दमः 002c व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता 003a विशाखयूपे देवानां सर्वेषामग्नयश्चिताः 003c तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान् 004a अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये 004c तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव 004e वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान् 005a न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु 005c देवयानेन नाकस्य पृष्ठमाप्नोति भारत 006a अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः 006c ब्राह्मणाः श्रुतिसम्पन्नास्तान्निबोध जनाधिप 007a वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् 007c कृतात्मसु महाराज स वै त्यागी स्मृतो नरः 008a अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः 008c आत्मत्यागी महाराज स त्यागी तामसः प्रभो 009a अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः 009c अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः 010a क्रोधहर्षावनादृत्य पैशुन्यं च विशाम्पते 010c विप्रो वेदानधीते यः स त्यागी गुरुपूजकः 011a आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः 011c एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः 012a समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत 012c अयं पन्था महर्षीणामियं लोकविदां गतिः 013a इति यः कुरुते भावं स त्यागी भरतर्षभ 013c न यः परित्यज्य गृहान्वनमेति विमूढवत् 014a यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः 014c अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट् 015a अभिमानकृतं कर्म नैतत्फलवदुच्यते 015c त्यागयुक्तं महाराज सर्वमेव महाफलम् 016a शमो दमस्तपो दानं सत्यं शौचमथार्जवम् 016c यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः 017a पितृदेवातिथिकृते समारम्भोऽत्र शस्यते 017c अत्रैव हि महाराज त्रिवर्गः केवलं फलम् 018a एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते 018c त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् 019a असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः 019c मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः 020a वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः 020c पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च 021a गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् 021c तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा 022a तत्सम्प्राप्य गृहस्था ये पशुधान्यसमन्विताः 022c न यजन्ते महाराज शाश्वतं तेषु किल्बिषम् 023a स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे 023c अथापरे महायज्ञान्मनसैव वितन्वते 024a एवं दानसमाधानं मार्गमातिष्ठतो नृप 024c द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः 025a स रत्नानि विचित्राणि सम्भृतानि ततस्ततः 025c मखेष्वनभिसन्त्यज्य नास्तिक्यमभिजल्पसि 025e कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप 026a राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः 026c य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः 026e तैर्यजस्व महाराज शक्रो देवपतिर्यथा 027a राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् 027c अशरण्यः प्रजानां यः स राजा कलिरुच्यते 028a अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलङ्कृताः 028c ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च 029a अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः 029c वयं ते राजकलयो भविष्यामो विशाम्पते 030a अदातारोऽशरण्याश्च राजकिल्बिषभागिनः 030c दुःखानामेव भोक्तारो न सुखानां कदाचन 031a अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् 031c तीर्थेष्वनभिसन्त्यज्य प्रव्रजिष्यसि चेदथ 032a छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् 032c लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः 033a अन्तर्बहिश्च यत्किञ्चिन्मनोव्यासङ्गकारकम् 033c परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते 034a एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते 034c ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित् 035a निहत्य शत्रूंस्तरसा समृद्धान्शक्रो यथा दैत्यबलानि सङ्ख्ये 035c कः पार्थ शोचेन्निरतः स्वधर्मे पूर्वैः स्मृते पार्थिव शिष्टजुष्टे 036a क्षात्रेण धर्मेण पराक्रमेण जित्वा महीं मन्त्रविद्भ्यः प्रदाय 036c नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता न शोचितव्यं भवताद्य पार्थ