001 अर्जुन उवाच 001a अत्रैवोदाहरन्तीममितिहासं पुरातनम् 001c तापसैः सह संवादं शक्रस्य भरतर्षभ 002a केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः 002c अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः 003a धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः 003c त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत 004a तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः 004c सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः 005a पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम् 005c संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः 006 ऋषय ऊचुः 006a अहो बतायं शकुनिर्विघसाशान्प्रशंसति 006c अस्मान्नूनमयं शास्ति वयं च विघसाशिनः 007 शकुनिरुवाच 007a नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान् 007c उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः 008 ऋषय ऊचुः 008a इदं श्रेयः परमिति वयमेवाभ्युपास्महे 008c शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते 009 शकुनिरुवाच 009a यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना 009c ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः 010 ऋषय ऊचुः 010a शृणुमस्ते वचस्तात पन्थानो विदितास्तव 010c नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः 011 शकुनिरुवाच 011a चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम् 011c शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः 012a मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते 012c जीवतो यो यथाकालं श्मशाननिधनादिति 013a कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः 013c अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते 014a आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते 014c मासार्धमासा ऋतव आदित्यशशितारकम् 015a ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम् 015c सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान् 016a अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः 016c मूढानामर्थहीनानां तेषामेनस्तु विद्यते 017a देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् 017c सन्त्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम् 018a एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम् 018c तस्मात्तदध्यवसतस्तपस्वि तप उच्यते 019a देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान् 019c संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते 020a देवा वै दुष्करं कृत्वा विभूतिं परमां गताः 020c तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः 021a तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः 021c कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम् 022a एतद्विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः 022c तस्माद्वनं मध्यमं च लोकेषु तप उच्यते 023a दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः 023c सायम्प्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि 024a दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च 024c अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः 025a तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः 025c लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः 026a त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः 026c वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः 027a ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम् 027c उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः 028a तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम् 028c प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम