001 भीम उवाच 001a श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः 001c अनुवाकहताबुद्धिर्नैषा तत्त्वार्थदर्शिनी 002a आलस्ये कृतचित्तस्य राजधर्मानसूयतः 002c विनाशे धार्तराष्ट्राणां किं फलं भरतर्षभ 003a क्षमानुकम्पा कारुण्यमानृशंस्यं न विद्यते 003c क्षात्रमाचरतो मार्गमपि बन्धोस्त्वदन्तरे 004a यदीमां भवतो बुद्धिं विद्याम वयमीदृशीम् 004c शस्त्रं नैव ग्रहीष्यामो न वधिष्याम कञ्चन 005a भैक्ष्यमेवाचरिष्याम शरीरस्या विमोक्षणात् 005c न चेदं दारुणं युद्धमभविष्यन्महीक्षिताम् 006a प्राणस्यान्नमिदं सर्वमिति वै कवयो विदुः 006c स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् 007a आददानस्य चेद्राज्यं ये केचित्परिपन्थिनः 007c हन्तव्यास्त इति प्राज्ञाः क्षत्रधर्मविदो विदुः 008a ते सदोषा हतास्माभी राज्यस्य परिपन्थिनः 008c तान्हत्वा भुङ्क्ष्व धर्मेण युधिष्ठिर महीमिमाम् 009a यथा हि पुरुषः खात्वा कूपमप्राप्य चोदकम् 009c पङ्कदिग्धो निवर्तेत कर्मेदं नस्तथोपमम् 010a यथारुह्य महावृक्षमपहृत्य ततो मधु 010c अप्राश्य निधनं गच्छेत्कर्मेदं नस्तथोपमम् 011a यथा महान्तमध्वानमाशया पुरुषः पतन् 011c स निराशो निवर्तेत कर्मेदं नस्तथोपमम् 012a यथा शत्रून्घातयित्वा पुरुषः कुरुसत्तम 012c आत्मानं घातयेत्पश्चात्कर्मेदं नस्तथाविधम् 013a यथान्नं क्षुधितो लब्ध्वा न भुञ्जीत यदृच्छया 013c कामी च कामिनीं लब्ध्वा कर्मेदं नस्तथाविधम् 014a वयमेवात्र गर्ह्या हि ये वयं मन्दचेतसः 014c त्वां राजन्ननुगच्छामो ज्येष्ठोऽयमिति भारत 015a वयं हि बाहुबलिनः कृतविद्या मनस्विनः 015c क्लीबस्य वाक्ये तिष्ठामो यथैवाशक्तयस्तथा 016a अगतीन्कागतीनस्मान्नष्टार्थानर्थसिद्धये 016c कथं वै नानुपश्येयुर्जनाः पश्यन्ति यादृशम् 017a आपत्काले हि सन्न्यासः कर्तव्य इति शिष्यते 017c जरयाभिपरीतेन शत्रुभिर्व्यंसितेन च 018a तस्मादिह कृतप्रज्ञास्त्यागं न परिचक्षते 018c धर्मव्यतिक्रमं चेदं मन्यन्ते सूक्ष्मदर्शिनः 019a कथं तस्मात्समुत्पन्नस्तन्निष्ठस्तदुपाश्रयः 019c तदेव निन्दन्नासीत श्रद्धा वान्यत्र गृह्यते 020a श्रिया विहीनैरधनैर्नास्तिकैः सम्प्रवर्तितम् 020c वेदवादस्य विज्ञानं सत्याभासमिवानृतम् 021a शक्यं तु मौण्ड्यमास्थाय बिभ्रतात्मानमात्मना 021c धर्मच्छद्म समास्थाय आसितुं न तु जीवितुम् 022a शक्यं पुनररण्येषु सुखमेकेन जीवितुम् 022c अबिभ्रता पुत्रपौत्रान्देवर्षीनतिथीन्पितॄन् 023a नेमे मृगाः स्वर्गजितो न वराहा न पक्षिणः 023c अथैतेन प्रकारेण पुण्यमाहुर्न ताञ्जनाः 024a यदि सन्न्यासतः सिद्धिं राजन्कश्चिदवाप्नुयात् 024c पर्वताश्च द्रुमाश्चैव क्षिप्रं सिद्धिमवाप्नुयुः 025a एते हि नित्यसन्न्यासा दृश्यन्ते निरुपद्रवाः 025c अपरिग्रहवन्तश्च सततं चात्मचारिणः 026a अथ चेदात्मभाग्येषु नान्येषां सिद्धिमश्नुते 026c तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः 027a औदकाः सृष्टयश्चैव जन्तवः सिद्धिमाप्नुयुः 027c येषामात्मैव भर्तव्यो नान्यः कश्चन विद्यते 028a अवेक्षस्व यथा स्वैः स्वैः कर्मभिर्व्यापृतं जगत् 028c तस्मात्कर्मैव कर्तव्यं नास्ति सिद्धिरकर्मणः