001 युधिष्ठिर उवाच 001a मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि 001c धारयित्वापि ते श्रुत्वा रोचतां वचनं मम 002a सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः 002c गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत 003a क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम् 003c अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु 004a हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः 004c अरण्ये फलमूलाशी चरिष्यामि मृगैः सह 005a जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन् 005c कृशः परिमिताहारश्चर्मचीरजटाधरः 006a शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः 006c तपसा विधिदृष्टेन शरीरमुपशोषयन् 007a मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः 007c मुदितानामरण्येषु वसतां मृगपक्षिणाम् 008a आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम् 008c नानारूपान्वने पश्यन्रमणीयान्वनौकसः 009a वानप्रस्थजनस्यापि दर्शनं कुलवासिनः 009c नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम् 010a एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् 010c पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् 011a एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् 011c सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम् 012a अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ 012c चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम् 013a पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः 013c वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः 014a न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः 014c निराशीर्निर्ममो भूत्वा निर्द्वन्द्वो निष्परिग्रहः 015a आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः 015c अकुर्वाणः परैः काञ्चित्संविदं जातु केनचित् 016a जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान् 016c प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति 017a न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् 017c प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः 018a अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित् 018c न देशं न दिशं काञ्चिद्गन्तुमिच्छन्विशेषतः 019a गमने निरपेक्षश्च पश्चादनवलोकयन् 019c ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः 020a स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि 020c द्वन्द्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन् 021a अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित् 021c अन्येष्वपि चरल्ँलाभमलाभे सप्त पूरयन् 022a विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने 022c अतीतपात्रसञ्चारे काले विगतभिक्षुके 023a एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च 023c स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम् 024a न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् 024c जीवितं मरणं चैव नाभिनन्दन्न च द्विषन् 025a वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः 025c नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः 026a याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः 026c सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः 027a तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः 027c सुपरित्यक्तसङ्कल्पः सुनिर्णिक्तात्मकल्मषः 028a विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः 028c न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः 029a वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम् 029c तृष्णया हि महत्पापमज्ञानादस्मि कारितः 030a कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः 030c कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति 031a आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् 031c प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत् 032a एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत् 032c समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान् 033a जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् 033c असारमिममस्वन्तं संसारं त्यजतः सुखम् 034a दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु 034c को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित् 035a कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम् 035c पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते 036a तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम् 036c तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम् 037a एतया सततं वृत्त्या चरन्नेवम्प्रकारया 037c देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः