001 वैशम्पायन उवाच 001a युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः 001c शुशोच दुःखसन्तप्तः स्मृत्वा कर्णं महारथम् 002a आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः 002c दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः 003a यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम् 003c ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् 004a अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल 004c आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः 005a धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् 005c धिगस्त्वमर्षं येनेमामापदं गमिता वयम् 006a साधु क्षमा दमः शौचमवैरोध्यममत्सरः 006c अहिंसा सत्यवचनं नित्यानि वनचारिणाम् 007a वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः 007c इमामवस्थामापन्ना राज्यलेशबुभुक्षया 008a त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् 008c बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः 009a ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान् 009c सम्परित्यज्य जीवामो हीनार्था हतबान्धवाः 010a आमिषे गृध्यमानानामशुनां नः शुनामिव 010c आमिषं चैव नो नष्टमामिषस्य च भोजिनः 011a न पृथिव्या सकलया न सुवर्णस्य राशिभिः 011c न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः 012a संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः 012c मृत्युयानं समारुह्य गता वैवस्वतक्षयम् 013a बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् 013c तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया 014a उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः 014c लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति 015a यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि 015c सम्भाविता जातबलास्ते दद्युर्यदि नः सुखम् 015e इह चामुत्र चैवेति कृपणाः फलहेतुकाः 016a तासामयं समारम्भो निवृत्तः केवलोऽफलः 016c यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः 017a अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च 017c पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम् 018a यदैषामङ्ग पितरौ जातौ काममयाविव 018c सञ्जातबलरूपेषु तदैव निहता नृपाः 019a संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः 019c न ते जन्मफलं किञ्चिद्भोक्तारो जातु कर्हिचित् 020a पाञ्चालानां कुरूणां च हता एव हि येऽहताः 020c ते वयं त्वधमाल्ँलोकान्प्रपद्येम स्वकर्मभिः 021a वयमेवास्य लोकस्य विनाशे कारणं स्मृताः 021c धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि 022a सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः 022c मिथ्यावृत्तः स सततमस्मास्वनपकारिषु 023a अंशकामा वयं ते च न चास्माभिर्न तैर्जितम् 023c न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम् 024a नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् 024c न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः 025a ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः 025c धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः 026a तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम् 026c अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा 026e असंशयं धृतराष्ट्रो यथैवाहं तथा गतः 027a अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम् 027c पतितो यशसो दीप्ताद्घातयित्वा सहोदरान् 028a इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः 028c अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि 029a को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने 029c यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसन्निधौ 030a आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः 030c प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव 031a सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः 031c दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् 031e अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् 032a कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम् 032c राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति 033a हताः शूराः कृतं पापं विषयः स्वो विनाशितः 033c हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम् 034a धनञ्जय कृतं पापं कल्याणेनोपहन्यते 034c त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः 035a त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा 035c प्राप्तवर्त्मा कृतमतिर्ब्रह्म सम्पद्यते तदा 036a स धनञ्जय निर्द्वन्द्वो मुनिर्ज्ञानसमन्वितः 036c वनमामन्त्र्य वः सर्वान्गमिष्यामि परन्तप 037a न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः 037c परिग्रहवता तन्मे प्रत्यक्षमरिसूदन 038a मया निसृष्टं पापं हि परिग्रहमभीप्सता 038c जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः 039a स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च 039c गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा 040a प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् 040c न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम 041a एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः 041c व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत