001 वैशम्पायन उवाच 001a एतावदुक्त्वा देवर्षिर्विरराम स नारदः 001c युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः 002a तं दीनमनसं वीरमधोवदनमातुरम् 002c निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा 003a कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना 003c अब्रवीन्मधुराभाषा काले वचनमर्थवत् 004a युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि 004c जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम 005a यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव 005c भास्करेण च देवेन पित्रा धर्मभृतां वर 006a यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता 006c तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः 007a न चैनमशकद्भानुरहं वा स्नेहकारणैः 007c पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया 008a ततः कालपरीतः स वैरस्योद्धुक्षणे रतः 008c प्रतीपकारी युष्माकमिति चोपेक्षितो मया 009a इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः 009c उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः 010a भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम् 010c शशाप च महातेजाः सर्वलोकेषु च स्त्रियः 010e न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः 011a स राजा पुत्रपौत्राणां सम्बन्धिसुहृदां तथा 011c स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः 012a ततः शोकपरीतात्मा सधूम इव पावकः 012c निर्वेदमकरोद्धीमान्राजा सन्तापपीडितः