001 नारद उवाच 001a आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः 001c आह्वयद्द्वैरथेनाजौ जरासन्धो महीपतिः 002a तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः 002c युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः 003a क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ 003c बाहुभिः समसज्जेतामुभावपि बलान्वितौ 004a बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः 004c बिभेद सन्धिं देहस्य जरया श्लेषितस्य ह 005a स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः 005c प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत 006a प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ 006c अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित् 007a पालयामास चम्पां तु कर्णः परबलार्दनः 007c दुर्योधनस्यानुमते तवापि विदितं तथा 008a एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ 008c त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले 009a स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते 009c सहजं कवचं चैव मोहितो देवमायया 010a विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा 010c निहतो विजयेनाजौ वासुदेवस्य पश्यतः 011a ब्राह्मणस्याभिशापेन रामस्य च महात्मनः 011c कुन्त्याश्च वरदानेन मायया च शतक्रतोः 012a भीष्मावमानात्सङ्ख्यायां रथानामर्धकीर्तनात् 012c शल्यात्तेजोवधाच्चापि वासुदेवनयेन च 013a रुद्रस्य देवराजस्य यमस्य वरुणस्य च 013c कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः 014a अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना 014c हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः 015a एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः 015c न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः