001 नारद उवाच 001a कर्णस्तु समवाप्यैतदस्त्रं भार्गवनन्दनात् 001c दुर्योधनेन सहितो मुमुदे भरतर्षभ 002a ततः कदाचिद्राजानः समाजग्मुः स्वयंवरे 002c कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च 003a श्रीमद्राजपुरं नाम नगरं तत्र भारत 003c राजानः शतशस्तत्र कन्यार्थं समुपागमन् 004a श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् 004c रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ 005a ततः स्वयंवरे तस्मिन्सम्प्रवृत्ते महोत्सवे 005c समापेतुर्नृपतयः कन्यार्थे नृपसत्तम 006a शिशुपालो जरासन्धो भीष्मको वक्र एव च 006c कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः 007a सृगालश्च महाराज स्त्रीराज्याधिपतिश्च यः 007c अशोकः शतधन्वा च भोजो वीरश्च नामतः 008a एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः 008c म्लेच्छाचार्याश्च राजानः प्राच्योदीच्याश्च भारत 009a काञ्चनाङ्गदिनः सर्वे बद्धजाम्बूनदस्रजः 009c सर्वे भास्वरदेहाश्च व्याघ्रा इव मदोत्कटाः 010a ततः समुपविष्टेषु तेषु राजसु भारत 010c विवेश रङ्गं सा कन्या धात्रीवर्षधरान्विता 011a ततः संश्राव्यमाणेषु राज्ञां नामसु भारत 011c अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी 012a दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् 012c प्रत्यषेधच्च तां कन्यामसत्कृत्य नराधिपान् 013a स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः 013c रथमारोप्य तां कन्यामाजुहाव नराधिपान् 014a तमन्वयाद्रथी खड्गी बद्धगोधाङ्गुलित्रवान् 014c कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ 015a ततो विमर्दः सुमहान्राज्ञामासीद्युधिष्ठिर 015c सन्नह्यतां तनुत्राणि रथान्योजयतामपि 016a तेऽभ्यधावन्त सङ्क्रुद्धाः कर्णदुर्योधनावुभौ 016c शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव 017a कर्णस्तेषामापततामेकैकेन क्षुरेण ह 017c धनूंषि सशरावापान्यपातयत भूतले 018a ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् 018c कांश्चिदुद्वहतो बाणान्रथशक्तिगदास्तथा 019a लाघवादाकुलीकृत्य कर्णः प्रहरतां वरः 019c हतसूतांश्च भूयिष्ठानवजिग्ये नराधिपान् 020a ते स्वयं त्वरयन्तोऽश्वान्याहि याहीति वादिनः 020c व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः 021a दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा 021c हृष्टः कन्यामुपादाय नगरं नागसाह्वयम्