001 नारद उवाच 001a कर्णस्य बाहुवीर्येण प्रश्रयेण दमेन च 001c तुतोष भृगुशार्दूलो गुरुशुश्रूषया तथा 002a तस्मै स विधिवत्कृत्स्नं ब्रह्मास्त्रं सनिवर्तनम् 002c प्रोवाचाखिलमव्यग्रं तपस्वी सुतपस्विने 003a विदितास्त्रस्ततः कर्णो रममाणोऽऽश्रमे भृगोः 003c चकार वै धनुर्वेदे यत्नमद्भुतविक्रमः 004a ततः कदाचिद्रामस्तु चरन्नाश्रममन्तिकात् 004c कर्णेन सहितो धीमानुपवासेन कर्शितः 005a सुष्वाप जामदग्न्यो वै विस्रम्भोत्पन्नसौहृदः 005c कर्णस्योत्सङ्ग आधाय शिरः क्लान्तमना गुरुः 006a अथ कृमिः श्लेष्ममयो मांसशोणितभोजनः 006c दारुणो दारुणस्पर्शः कर्णस्याभ्याशमागमत् 007a स तस्योरुमथासाद्य बिभेद रुधिराशनः 007c न चैनमशकत्क्षेप्तुं हन्तुं वापि गुरोर्भयात् 008a सन्दश्यमानोऽपि तथा कृमिणा तेन भारत 008c गुरुप्रबोधशङ्की च तमुपैक्षत सूतजः 009a कर्णस्तु वेदनां धैर्यादसह्यां विनिगृह्य ताम् 009c अकम्पन्नव्यथंश्चैव धारयामास भार्गवम् 010a यदा तु रुधिरेणाङ्गे परिस्पृष्टो भृगूद्वहः 010c तदाबुध्यत तेजस्वी सन्तप्तश्चेदमब्रवीत् 011a अहोऽस्म्यशुचितां प्राप्तः किमिदं क्रियते त्वया 011c कथयस्व भयं त्यक्त्वा याथातथ्यमिदं मम 012a तस्य कर्णस्तदाचष्ट कृमिणा परिभक्षणम् 012c ददर्श रामस्तं चापि कृमिं सूकरसन्निभम् 013a अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतम् 013c रोमभिः सन्निरुद्धाङ्गमलर्कं नाम नामतः 014a स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत् 014c तस्मिन्नेवासृक्सङ्क्लिन्ने तदद्भुतमिवाभवत् 015a ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् 015c राक्षसो लोहितग्रीवः कृष्णाङ्गो मेघवाहनः 016a स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः 016c स्वस्ति ते भृगुशार्दूल गमिष्यामि यथागतम् 017a मोक्षितो नरकादस्मि भवता मुनिसत्तम 017c भद्रं च तेऽस्तु नन्दिश्च प्रियं मे भवता कृतम् 018a तमुवाच महाबाहुर्जामदग्न्यः प्रतापवान् 018c कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि तत् 019a सोऽब्रवीदहमासं प्राग्गृत्सो नाम महासुरः 019c पुरा देवयुगे तात भृगोस्तुल्यवया इव 020a सोऽहं भृगोः सुदयितां भार्यामपहरं बलात् 020c महर्षेरभिशापेन कृमिभूतोऽपतं भुवि 021a अब्रवीत्तु स मां क्रोधात्तव पूर्वपितामहः 021c मूत्रश्लेष्माशनः पाप निरयं प्रतिपत्स्यसे 022a शापस्यान्तो भवेद्ब्रह्मन्नित्येवं तमथाब्रुवम् 022c भविता भार्गवे राम इति मामब्रवीद्भृगुः 023a सोऽहमेतां गतिं प्राप्तो यथा नकुशलं तथा 023c त्वया साधो समागम्य विमुक्तः पापयोनितः 024a एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः 024c रामः कर्णं तु सक्रोधमिदं वचनमब्रवीत् 025a अतिदुःखमिदं मूढ न जातु ब्राह्मणः सहेत् 025c क्षत्रियस्यैव ते धैर्यं कामया सत्यमुच्यताम् 026a तमुवाच ततः कर्णः शापभीतः प्रसादयन् 026c ब्रह्मक्षत्रान्तरे सूतं जातं मां विद्धि भार्गव 027a राधेयः कर्ण इति मां प्रवदन्ति जना भुवि 027c प्रसादं कुरु मे ब्रह्मन्नस्त्रलुब्धस्य भार्गव 028a पिता गुरुर्न सन्देहो वेदविद्याप्रदः प्रभुः 028c अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके 029a तमुवाच भृगुश्रेष्ठः सरोषः प्रहसन्निव 029c भूमौ निपतितं दीनं वेपमानं कृताञ्जलिम् 030a यस्मान्मिथ्योपचरितो अस्त्रलोभादिह त्वया 030c तस्मादेतद्धि ते मूढ ब्रह्मास्त्रं प्रतिभास्यति 031a अन्यत्र वधकालात्ते सदृशेन समेयुषः 031c अब्राह्मणे न हि ब्रह्म ध्रुवं तिष्ठेत्कदाचन 032a गच्छेदानीं न ते स्थानमनृतस्येह विद्यते 032c न त्वया सदृशो युद्धे भविता क्षत्रियो भुवि 033a एवमुक्तस्तु रामेण न्यायेनोपजगाम सः 033c दुर्योधनमुपागम्य कृतास्त्रोऽस्मीति चाब्रवीत्