001 वैशम्पायन उवाच 001a स एवमुक्तस्तु मुनिर्नारदो वदतां वरः 001c कथयामास तत्सर्वं यथा शप्तः स सूतजः 002a एवमेतन्महाबाहो यथा वदसि भारत 002c न कर्णार्जुनयोः किञ्चिदविषह्यं भवेद्रणे 003a गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप 003c तन्निबोध महाराज यथा वृत्तमिदं पुरा 004a क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो 004c सङ्घर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः 005a स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः 005c चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव 006a स बलं भीमसेनस्य फल्गुनस्य च लाघवम् 006c बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा 007a सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः 007c प्रजानामनुरागं च चिन्तयानो व्यदह्यत 008a स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै 008c युष्माभिर्नित्यसन्द्विष्टो दैवाच्चापि स्वभावतः 009a विद्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम् 009c द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् 010a ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् 010c अर्जुनेन समो युद्धे भवेयमिति मे मतिः 011a समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् 011c त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः 012a द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति 012c दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह 013a ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः 013c क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथञ्चन 014a इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च 014c जगाम सहसा रामं महेन्द्रं पर्वतं प्रति 015a स तु राममुपागम्य शिरसाभिप्रणम्य च 015c ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत 016a रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः 016c उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् 017a तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे 017c गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः 018a स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि 018c प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम् 019a स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके 019c एकः खड्गधनुष्पाणिः परिचक्राम सूतजः 020a सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः 020c जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया 021a तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् 021c कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः 022a अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव 022c मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः 023a तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव 023c दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते 024a येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् 024c युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति 025a ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः 025c पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम 026a यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम 026c प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति 027a ततः प्रसादयामास पुनस्तं द्विजसत्तमम् 027c गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् 028a नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा 028c गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर 029a इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः 029c राममभ्यागमद्भीतस्तदेव मनसा स्मरन्