वैशम्पायन उवाच 001
कृतोदकास्ते सुहृदां सर्वेषां पाण्डुनन्दनाः 001a
विदुरो धृतराष्ट्रश्च सर्वाश्च भरतस्त्रियः 001c
तत्र ते सुमहात्मानो न्यवसन्कुरुनन्दनाः 002a
शौचं निवर्तयिष्यन्तो मासमेकं बहिः पुरात् 002c
कृतोदकं तु राजानं धर्मात्मानं युधिष्ठिरम् 003a
अभिजग्मुर्महात्मानः सिद्धा ब्रह्मर्षिसत्तमाः 003c
द्वैपायनो नारदश्च देवलश्च महानृषिः 004a
देवस्थानश्च कण्वश्च तेषां शिष्याश्च सत्तमाः 004c
अन्ये च वेदविद्वांसः कृतप्रज्ञा द्विजातयः 005a
गृहस्थाः स्नातकाः सर्वे ददृशुः कुरुसत्तमम् 005c
अभिगम्य महात्मानः पूजिताश्च यथाविधि 006a
आसनेषु महार्हेषु विविशुस्ते महर्षयः 006c
प्रतिगृह्य ततः पूजां तत्कालसदृशीं तदा 007a
पर्युपासन्यथान्यायं परिवार्य युधिष्ठिरम् 007c
पुण्ये भागीरथीतीरे शोकव्याकुलचेतसम् 008a
आश्वासयन्तो राजानं विप्राः शतसहस्रशः 008c
नारदस्त्वब्रवीत्काले धर्मात्मानं युधिष्ठिरम् 009a
विचार्य मुनिभिः सार्धं तत्कालसदृशं वचः 009c
भवतो बाहुवीर्येण प्रसादान्माधवस्य च 010a
जितेयमवनिः कृत्स्ना धर्मेण च युधिष्ठिर 010c
दिष्ट्या मुक्ताः स्थ सङ्ग्रामादस्माल्लोकभयङ्करात् 011a
क्षत्रधर्मरतश्चापि कच्चिन्मोदसि पाण्डव 011c
कच्चिच्च निहतामित्रः प्रीणासि सुहृदो नृप 012a
कच्चिच्छ्रियमिमां प्राप्य न त्वां शोकः प्रबाधते 012c
013 युधिष्ठिर उवाच
विजितेयं मही कृत्स्ना कृष्णबाहुबलाश्रयात् 013a
ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च 013c
इदं तु मे महद्दुःखं वर्तते हृदि नित्यदा 014a
कृत्वा ज्ञातिक्षयमिमं महान्तं लोभकारितम् 014c
सौभद्रं द्रौपदेयांश्च घातयित्वा प्रियान्सुतान् 015a
जयोऽयमजयाकारो भगवन्प्रतिभाति मे 015c
किं नु वक्ष्यति वार्ष्णेयी वधूर्मे मधुसूदनम् 016a
द्वारकावासिनी कृष्णमितः प्रतिगतं हरिम् 016c
द्रौपदी हतपुत्रेयं कृपणा हतबान्धवा 017a
अस्मत्प्रियहिते युक्ता भूयः पीडयतीव माम् 017c
इदमन्यच्च भगवन्यत्त्वां वक्ष्यामि नारद 018a
मन्त्रसंवरणेनास्मि कुन्त्या दुःखेन योजितः 018c
योऽसौ नागायुतबलो लोकेऽप्रतिरथो रणे 019a
सिंहखेलगतिर्धीमान्घृणी दान्तो यतव्रतः 019c
आश्रयो धार्तराष्ट्राणां मानी तीक्ष्णपराक्रमः 020a
अमर्षी नित्यसंरम्भी क्षेप्तास्माकं रणे रणे 020c
शीघ्रास्त्रश्चित्रयोधी च कृती चाद्भुतविक्रमः 021a
गूढोत्पन्नः सुतः कुन्त्या भ्रातास्माकं च सोदरः 021c
तोयकर्मणि यं कुन्ती कथयामास सूर्यजम् 022a
पुत्रं सर्वगुणोपेतमवकीर्णं जले पुरा 022c
यं सूतपुत्रं लोकोऽयं राधेयं चाप्यमन्यत 023a
स ज्येष्ठपुत्रः कुन्त्या वै भ्रातास्माकं च मातृजः 023c
अजानता मया सङ्ख्ये राज्यलुब्धेन घातितः 024a
तन्मे दहति गात्राणि तूलराशिमिवानलः 024c
न हि तं वेद पार्थोऽपि भ्रातरं श्वेतवाहनः 025a
नाहं न भीमो न यमौ स त्वस्मान्वेद सुव्रतः 025c
गता किल पृथा तस्य सकाशमिति नः श्रुतम् 026a
अस्माकं शमकामा वै त्वं च पुत्रो ममेत्यथ 026c
पृथाया न कृतः कामस्तेन चापि महात्मना 027a
अतिपश्चादिदं मातर्यवोचदिति नः श्रुतम् 027c
न हि शक्ष्याम्यहं त्यक्तुं नृपं दुर्योधनं रणे 028a
अनार्यं च नृशंसं च कृतघ्नं च हि मे भवेत् 028c
युधिष्ठिरेण सन्धिं च यदि कुर्यां मते तव 029a
भीतो रणे श्वेतवाहादिति मां मंस्यते जनः 029c
सोऽहं निर्जित्य समरे विजयं सहकेशवम् 030a
सन्धास्ये धर्मपुत्रेण पश्चादिति च सोऽब्रवीत् 030c
तमवोचत्किल पृथा पुनः पृथुलवक्षसम् 031a
चतुर्णामभयं देहि कामं युध्यस्व फल्गुनम् 031c
सोऽब्रवीन्मातरं धीमान्वेपमानः कृताञ्जलिः 032a
प्राप्तान्विषह्यांश्चतुरो न हनिष्यामि ते सुतान् 032c
पञ्चैव हि सुता मातर्भविष्यन्ति हि ते ध्रुवम् 033a
सकर्णा वा हते पार्थे सार्जुना वा हते मयि 033c
तं पुत्रगृद्धिनी भूयो माता पुत्रमथाब्रवीत् 034a
भ्रातॄणां स्वस्ति कुर्वीथा येषां स्वस्ति चिकीर्षसि 034c
तमेवमुक्त्वा तु पृथा विसृज्योपययौ गृहान् 035a
सोऽर्जुनेन हतो वीरो भ्राता भ्रात्रा सहोदरः 035c
न चैव विवृतो मन्त्रः पृथायास्तस्य वा मुने 036a
अथ शूरो महेष्वासः पार्थेनासौ निपातितः 036c
अहं त्वज्ञासिषं पश्चात्स्वसोदर्यं द्विजोत्तम 037a
पूर्वजं भ्रातरं कर्णं पृथाया वचनात्प्रभो 037c
तेन मे दूयतेऽतीव हृदयं भ्रातृघातिनः 038a
कर्णार्जुनसहायोऽहं जयेयमपि वासवम् 038c
सभायां क्लिश्यमानस्य धार्तराष्ट्रैर्दुरात्मभिः 039a
सहसोत्पतितः क्रोधः कर्णं दृष्ट्वा प्रशाम्यति 039c
यदा ह्यस्य गिरो रूक्षाः शृणोमि कटुकोदयाः 040a
सभायां गदतो द्यूते दुर्योधनहितैषिणः 040c
तदा नश्यति मे क्रोधः पादौ तस्य निरीक्ष्य ह 041a
कुन्त्या हि सदृशौ पादौ कर्णस्येति मतिर्मम 041c
सादृश्यहेतुमन्विच्छन्पृथायास्तव चैव ह 042a
कारणं नाधिगच्छामि कथञ्चिदपि चिन्तयन् 042c
कथं नु तस्य सङ्ग्रामे पृथिवी चक्रमग्रसत् 043a
कथं च शप्तो भ्राता मे तत्त्वं वक्तुमिहार्हसि 043c
श्रोतुमिच्छामि भगवंस्त्वत्तः सर्वं यथातथम् 044a
भवान्हि सर्वविद्विद्वाल्ँलोके वेद कृताकृतम् 044c