001 वैशम्पायन उवाच 001a ते समासाद्य गङ्गां तु शिवां पुण्यजनोचिताम् 001c ह्रदिनीं वप्रसम्पन्नां महानूपां महावनाम् 002a भूषणान्युत्तरीयाणि वेष्टनान्यवमुच्य च 002c ततः पितॄणां पौत्राणां भ्रातॄणां स्वजनस्य च 003a पुत्राणामार्यकाणां च पतीनां च कुरुस्त्रियः 003c उदकं चक्रिरे सर्वा रुदन्त्यो भृशदुःखिताः 003e सुहृदां चापि धर्मज्ञाः प्रचक्रुः सलिलक्रियाः 004a उदके क्रियमाणे तु वीराणां वीरपत्निभिः 004c सूपतीर्थाभवद्गङ्गा भूयो विप्रससार च 005a तन्महोदधिसङ्काशं निरानन्दमनुत्सवम् 005c वीरपत्नीभिराकीर्णं गङ्गातीरमशोभत 006a ततः कुन्ती महाराज सहसा शोककर्शिता 006c रुदती मन्दया वाचा पुत्रान्वचनमब्रवीत् 007a यः स शूरो महेष्वासो रथयूथपयूथपः 007c अर्जुनेन हतः सङ्ख्ये वीरलक्षणलक्षितः 008a यं सूतपुत्रं मन्यध्वं राधेयमिति पाण्डवाः 008c यो व्यराजच्चमूमध्ये दिवाकर इव प्रभुः 009a प्रत्ययुध्यत यः सर्वान्पुरा वः सपदानुगान् 009c दुर्योधनबलं सर्वं यः प्रकर्षन्व्यरोचत 010a यस्य नास्ति समो वीर्ये पृथिव्यामपि कश्चन 010c सत्यसन्धस्य शूरस्य सङ्ग्रामेष्वपलायिनः 011a कुरुध्वमुदकं तस्य भ्रातुरक्लिष्टकर्मणः 011c स हि वः पूर्वजो भ्राता भास्करान्मय्यजायत 011e कुण्डली कवची शूरो दिवाकरसमप्रभः 012a श्रुत्वा तु पाण्डवाः सर्वे मातुर्वचनमप्रियम् 012c कर्णमेवानुशोचन्त भूयश्चार्ततराभवन् 013a ततः स पुरुषव्याघ्रः कुन्तीपुत्रो युधिष्ठिरः 013c उवाच मातरं वीरो निःश्वसन्निव पन्नगः 014a यस्येषुपातमासाद्य नान्यस्तिष्ठेद्धनञ्जयात् 014c कथं पुत्रो भवत्यां स देवगर्भः पुराभवत् 015a यस्य बाहुप्रतापेन तापिताः सर्वतो वयम् 015c तमग्निमिव वस्त्रेण कथं छादितवत्यसि 015e यस्य बाहुबलं घोरं धार्तराष्ट्रैरुपासितम् 016a नान्यः कुन्तीसुतात्कर्णादगृह्णाद्रथिनां रथी 016c स नः प्रथमजो भ्राता सर्वशस्त्रभृतां वरः 016e असूत तं भवत्यग्रे कथमद्भुतविक्रमम् 017a अहो भवत्या मन्त्रस्य पिधानेन वयं हताः 017c निधनेन हि कर्णस्य पीडिताः स्म सबान्धवाः 018a अभिमन्योर्विनाशेन द्रौपदेयवधेन च 018c पाञ्चालानां च नाशेन कुरूणां पतनेन च 019a ततः शतगुणं दुःखमिदं मामस्पृशद्भृशम् 019c कर्णमेवानुशोचन्हि दह्याम्यग्नाविवाहितः 020a न हि स्म किञ्चिदप्राप्यं भवेदपि दिवि स्थितम् 020c न च स्म वैशसं घोरं कौरवान्तकरं भवेत् 021a एवं विलप्य बहुलं धर्मराजो युधिष्ठिरः 021c विनदञ्शनकै राजंश्चकारास्योदकं प्रभुः 022a ततो विनेदुः सहसा स्त्रीपुंसास्तत्र सर्वशः 022c अभितो ये स्थितास्तत्र तस्मिन्नुदककर्मणि 023a तत आनाययामास कर्णस्य सपरिच्छदम् 023c स्त्रियः कुरुपतिर्धीमान्भ्रातुः प्रेम्णा युधिष्ठिरः 024a स ताभिः सह धर्मात्मा प्रेतकृत्यमनन्तरम् 024c कृत्वोत्ततार गङ्गायाः सलिलादाकुलेन्द्रियः