001 वासुदेव उवाच 001a उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः 001c तवैव ह्यपराधेन कुरवो निधनं गताः 002a या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम् 002c दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे 003a निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम् 003c कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि 004a मृतं वा यदि वा नष्टं योऽतीतमनुशोचति 004c दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते 005a तपोर्थीयं ब्राह्मणी धत्त गर्भं गौर्वोढारं धावितारं तुरङ्गी 005c शूद्रा दासं पशुपालं तु वैश्या वधार्थीयं त्वद्विधा राजपुत्री 006 वैशम्पायन उवाच 006a तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम् 006c तूष्णीं बभूव गान्धारी शोकव्याकुललोचना 007a धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः 007c पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम् 008a जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव 008c हतानां यदि जानीषे परिमाणं वदस्व मे 009 युधिष्ठिर उवाच 009a दशायुतानामयुतं सहस्राणि च विंशतिः 009c कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः 010a अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश 010c दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च 011 धृतराष्ट्र उवाच 011a युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः 011c आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः 012 युधिष्ठिर उवाच 012a यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे 012c देवराजसमाल्ँलोकान्गतास्ते सत्यविक्रमाः 013a ये त्वहृष्टेन मनसा मर्तव्यमिति भारत 013c युध्यमाना हताः सङ्ख्ये ते गन्धर्वैः समागताः 014a ये तु सङ्ग्रामभूमिष्ठा याचमानाः पराङ्मुखाः 014c शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति 015a पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः 015c ह्रीनिषेधा महात्मानः परानभिमुखा रणे 016a छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः 016c गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः 017a ये तत्र निहता राजन्नन्तरायोधनं प्रति 017c यथा कथञ्चित्ते राजन्सम्प्राप्ता उत्तरान्कुरून् 018 धृतराष्ट्र उवाच 018a केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत् 018c तन्मे वद महाबाहो श्रोतव्यं यदि वै मया 019 युधिष्ठिर उवाच 019a निदेशाद्भवतः पूर्वं वने विचरता मया 019c तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः 020a देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम् 020c दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा 021 धृतराष्ट्र उवाच 021a येऽत्रानाथा जनस्यास्य सनाथा ये च भारत 021c कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम् 022a न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः 022c वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः 023a यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः 023c तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर 024 वैशम्पायन उवाच 024a एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः 024c आदिदेश सुधर्माणं धौम्यं सूतं च सञ्जयम् 025a विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम् 025c इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः 026a भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः 026c यथा चानाथवत्किञ्चिच्छरीरं न विनश्यति 027a शासनाद्धर्मराजस्य क्षत्ता सूतश्च सञ्जयः 027c सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा 028a चन्दनागुरुकाष्ठानि तथा कालीयकान्युत 028c घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च 029a समाहृत्य महार्हाणि दारूणां चैव सञ्चयान् 029c रथांश्च मृदितांस्तत्र नानाप्रहरणानि च 030a चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान् 030c दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा 031a दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान् 031c शल्यं शलं च राजानं भूरिश्रवसमेव च 032a जयद्रथं च राजानमभिमन्युं च भारत 032c दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम् 033a बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान् 033c राजानं क्षेमधन्वानं विराटद्रुपदौ तथा 034a शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम् 034c युधामन्युं च विक्रान्तमुत्तमौजसमेव च 035a कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम् 035c अचलं वृषकं चैव भगदत्तं च पार्थिवम् 036a कर्णं वैकर्तनं चैव सहपुत्रममर्षणम् 036c केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान् 037a घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च 037c अलम्बुसं च राजानं जलसन्धं च पार्थिवम् 038a अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः 038c घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन् 039a पितृमेधाश्च केषाञ्चिदवर्तन्त महात्मनाम् 039c सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः 040a साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः 040c कश्मलं सर्वभूतानां निशायां समपद्यत 041a ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः 041c नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः 042a ये चाप्यनाथास्तत्रासन्नानादेशसमागताः 042c तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः 043a चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः 043c दाहयामास विदुरो धर्मराजस्य शासनात् 044a कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः 044c धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्