001 गान्धार्युवाच 001a काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम् 001c शयानमृषभस्कन्धं हतं पांसुशु माधव 002a यस्य क्षतजसन्दिग्धौ बाहू चन्दनरूषितौ 002c अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता 003a इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली 003c ययोर्विवरमापन्नां न रतिर्मां पुराजहत् 004a कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर 004c दूरबन्धुरनाथेव अतीव मधुरस्वरा 005a आतपे क्लाम्यमानानां विविधानामिव स्रजाम् 005c क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम् 006a शयानमभितः शूरं कालिङ्गं मधुसूदन 006c पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम् 007a मागधानामधिपतिं जयत्सेनं जनार्दन 007c परिवार्य प्ररुदिता मागध्यः पश्य योषितः 008a आसामायतनेत्राणां सुस्वराणां जनार्दन 008c मनःश्रुतिहरो नादो मनो मोहयतीव मे 009a प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः 009c स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि 010a कोसलानामधिपतिं राजपुत्रं बृहद्बलम् 010c भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः 011a अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान् 011c उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः 012a आसां सर्वानवद्यानामातपेन परिश्रमात् 012c प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव 013a द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः 013c द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः 014a तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः 014c भासयन्ति महीं भासा ज्वलिता इव पावकाः 015a द्रोणेन द्रुपदं सङ्ख्ये पश्य माधव पातितम् 015c महाद्विपमिवारण्ये सिंहेन महता हतम् 016a पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम् 016c आतपत्रं समाभाति शरदीव दिवाकरः 017a एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः 017c दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः 018a धृष्टकेतुं महेष्वासं चेदिपुङ्गवमङ्गनाः 018c द्रोणेन निहतं शूरं हरन्ति हृतचेतसः 019a द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन 019c महेष्वासो हतः शेते नद्या हृत इव द्रुमः 020a एष चेदिपतिः शूरो धृष्टकेतुर्महारथः 020c शेते विनिहतः सङ्ख्ये हत्वा शत्रून्सहस्रशः 021a वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः 021c चेदिराजं हृषीकेश हतं सबलबान्धवम् 022a दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम् 022c आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः 023a अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम् 023c द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः 024a पितरं नूनमाजिस्थं युध्यमानं परैः सह 024c नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन 025a एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात् 025c दुर्योधनं महाबाहो लक्ष्मणः परवीरहा 026a विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव 026c हिमान्ते पुष्पितौ शालौ मरुता गलिताविव 027a काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ 027c ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ 028a अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह 028c ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात् 029a दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात् 029c सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः 029e ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः 030a त इमे निहताः सङ्ख्ये पश्य कालस्य पर्ययम् 030c नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन 030e यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः 031a तदैव निहताः कृष्ण मम पुत्रास्तरस्विनः 031c यदैवाकृतकामस्त्वमुपप्लव्यं गतः पुनः 032a शन्तनोश्चैव पुत्रेण प्राज्ञेन विदुरेण च 032c तदैवोक्तास्मि मा स्नेहं कुरुष्वात्मसुतेष्विति 033a तयोर्न दर्शनं तात मिथ्या भवितुमर्हति 033c अचिरेणैव मे पुत्रा भस्मीभूता जनार्दन 034 वैशम्पायन उवाच 034a इत्युक्त्वा न्यपतद्भूमौ गान्धारी शोककर्शिता 034c दुःखोपहतविज्ञाना धैर्यमुत्सृज्य भारत 035a ततः कोपपरीताङ्गी पुत्रशोकपरिप्लुता 035c जगाम शौरिं दोषेण गान्धारी व्यथितेन्द्रिया 036 गान्धार्युवाच 036a पाण्डवा धार्तराष्ट्राश्च द्रुग्धाः कृष्ण परस्परम् 036c उपेक्षिता विनश्यन्तस्त्वया कस्माज्जनार्दन 037a शक्तेन बहुभृत्येन विपुले तिष्ठता बले 037c उभयत्र समर्थेन श्रुतवाक्येन चैव ह 038a इच्छतोपेक्षितो नाशः कुरूणां मधुसूदन 038c यस्मात्त्वया महाबाहो फलं तस्मादवाप्नुहि 039a पतिशुश्रूषया यन्मे तपः किञ्चिदुपार्जितम् 039c तेन त्वां दुरवापात्मञ्शप्स्ये चक्रगदाधर 040a यस्मात्परस्परं घ्नन्तो ज्ञातयः कुरुपाण्डवाः 040c उपेक्षितास्ते गोविन्द तस्माज्ज्ञातीन्वधिष्यसि 041a त्वमप्युपस्थिते वर्षे षट्त्रिंशे मधुसूदन 041c हतज्ञातिर्हतामात्यो हतपुत्रो वनेचरः 041e कुत्सितेनाभ्युपायेन निधनं समवाप्स्यसि 042a तवाप्येवं हतसुता निहतज्ञातिबान्धवाः 042c स्त्रियः परिपतिष्यन्ति यथैता भरतस्त्रियः 043 वैशम्पायन उवाच 043a तच्छ्रुत्वा वचनं घोरं वासुदेवो महामनाः 043c उवाच देवीं गान्धारीमीषदभ्युत्स्मयन्निव 044a संहर्ता वृष्णिचक्रस्य नान्यो मद्विद्यते शुभे 044c जानेऽहमेतदप्येवं चीर्णं चरसि क्षत्रिये 045a अवध्यास्ते नरैरन्यैरपि वा देवदानवैः 045c परस्परकृतं नाशमतः प्राप्स्यन्ति यादवाः 046a इत्युक्तवति दाशार्हे पाण्डवास्त्रस्तचेतसः 046c बभूवुर्भृशसंविग्ना निराशाश्चापि जीविते