001 गान्धार्युवाच 001a सोमदत्तसुतं पश्य युयुधानेन पातितम् 001c वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके 002a पुत्रशोकाभिसन्तप्तः सोमदत्तो जनार्दन 002c युयुधानं महेष्वासं गर्हयन्निव दृश्यते 003a असौ तु भूरिश्रवसो माता शोकपरिप्लुता 003c आश्वासयति भर्तारं सोमदत्तमनिन्दिता 004a दिष्ट्या नेदं महाराज दारुणं भरतक्षयम् 004c कुरुसङ्क्रन्दनं घोरं युगान्तमनुपश्यसि 005a दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम् 005c अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि 006a दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु 006c न शृणोषि महाराज सारसीनामिवार्णवे 007a एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः 007c स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः 008a श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि 008c छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम् 009a शलं विनिहतं सङ्ख्ये भूरिश्रवसमेव च 009c स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि 010a दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः 010c विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि 011a अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम् 011c परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः 012a एता विलप्य बहुलं भर्तृशोकेन कर्शिताः 012c पतन्त्यभिमुखा भूमौ कृपणं बत केशव 013a बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम् 013c प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः 014a ततः पापतरं कर्म कृतवानपि सात्यकिः 014c यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः 015a एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः 015c इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव 016a भार्या यूपध्वजस्यैषा करसम्मितमध्यमा 016c कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत् 017a अयं स रशनोत्कर्षी पीनस्तनविमर्दनः 017c नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः 018a वासुदेवस्य सान्निध्ये पार्थेनाक्लिष्टकर्मणा 018c युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः 019a किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन 019c अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान् 020a इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना 020c तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम् 021a गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः 021c निहतः सहदेवेन भागिनेयेन मातुलः 022a यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते 022c स एष पक्षिभिः पक्षैः शयान उपवीज्यते 023a यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः 023c तस्य मायाविनो माया दग्धाः पाण्डवतेजसा 024a मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम् 024c सभायां विपुलं राज्यं स पुनर्जीवितं जितः 025a शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते 025c कितवं मम पुत्राणां विनाशायोपशिक्षितम् 026a एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह 026c वधाय मम पुत्राणामात्मनः सगणस्य च 027a यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो 027c एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः 028a कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह 028c विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन