001 गान्धार्युवाच 001a एष शल्यो हतः शेते साक्षान्नकुलमातुलः 001c धर्मज्ञेन सता तात धर्मराजेन संयुगे 002a यस्त्वया स्पर्धते नित्यं सर्वत्र पुरुषर्षभ 002c स एष निहतः शेते मद्रराजो महारथः 003a येन सङ्गृह्णता तात रथमाधिरथेर्युधि 003c जयार्थं पाण्डुपुत्राणां तथा तेजोवधः कृतः 004a अहो धिक्पश्य शल्यस्य पूर्णचन्द्रसुदर्शनम् 004c मुखं पद्मपलाशाक्षं वडैरादष्टमव्रणम् 005a एषा चामीकराभस्य तप्तकाञ्चनसप्रभा 005c आस्याद्विनिःसृता जिह्वा भक्ष्यते कृष्ण पक्षिभिः 006a युधिष्ठिरेण निहतं शल्यं समितिशोभनम् 006c रुदन्त्यः पर्युपासन्ते मद्रराजकुलस्त्रियः 007a एताः सुसूक्ष्मवसना मद्रराजं नरर्षभम् 007c क्रोशन्त्यभिसमासाद्य क्षत्रियाः क्षत्रियर्षभम् 008a शल्यं निपतितं नार्यः परिवार्याभितः स्थिताः 008c वाशिता गृष्टयः पङ्के परिमग्नमिवर्षभम् 009a शल्यं शरणदं शूरं पश्यैनं रथसत्तमम् 009c शयानं वीरशयने शरैर्विशकलीकृतम् 010a एष शैलालयो राजा भगदत्तः प्रतापवान् 010c गजाङ्कुशधरः श्रेष्ठः शेते भुवि निपातितः 011a यस्य रुक्ममयी माला शिरस्येषा विराजते 011c श्वापदैर्भक्ष्यमाणस्य शोभयन्तीव मूर्धजान् 012a एतेन किल पार्थस्य युद्धमासीत्सुदारुणम् 012c लोमहर्षणमत्युग्रं शक्रस्य बलिना यथा 013a योधयित्वा महाबाहुरेष पार्थं धनञ्जयम् 013c संशयं गमयित्वा च कुन्तीपुत्रेण पातितः 014a यस्य नास्ति समो लोके शौर्ये वीर्ये च कश्चन 014c स एष निहतः शेते भीष्मो भीष्मकृदाहवे 015a पश्य शान्तनवं कृष्ण शयानं सूर्यवर्चसम् 015c युगान्त इव कालेन पातितं सूर्यमम्बरात् 016a एष तप्त्वा रणे शत्रूञ्शस्त्रतापेन वीर्यवान् 016c नरसूर्योऽस्तमभ्येति सूर्योऽस्तमिव केशव 017a शरतल्पगतं वीरं धर्मे देवापिना समम् 017c शयानं वीरशयने पश्य शूरनिषेविते 018a कर्णिनालीकनाराचैरास्तीर्य शयनोत्तमम् 018c आविश्य शेते भगवान्स्कन्दः शरवणं यथा 019a अतूलपूर्णं गाङ्गेयस्त्रिभिर्बाणैः समन्वितम् 019c उपधायोपधानाग्र्यं दत्तं गाण्डीवधन्वना 020a पालयानः पितुः शास्त्रमूर्ध्वरेता महायशाः 020c एष शान्तनवः शेते माधवाप्रतिमो युधि 021a धर्मात्मा तात धर्मज्ञः पारम्पर्येण निर्णये 021c अमर्त्य इव मर्त्यः सन्नेष प्राणानधारयत् 022a नास्ति युद्धे कृती कश्चिन्न विद्वान्न पराक्रमी 022c यत्र शान्तनवो भीष्मः शेतेऽद्य निहतः परैः 023a स्वयमेतेन शूरेण पृच्छ्यमानेन पाण्डवैः 023c धर्मज्ञेनाहवे मृत्युराख्यातः सत्यवादिना 024a प्रनष्टः कुरुवंशश्च पुनर्येन समुद्धृतः 024c स गतः कुरुभिः सार्धं महाबुद्धिः पराभवम् 025a धर्मेषु कुरवः कं नु परिप्रक्ष्यन्ति माधव 025c गते देवव्रते स्वर्गं देवकल्पे नरर्षभे 026a अर्जुनस्य विनेतारमाचार्यं सात्यकेस्तथा 026c तं पश्य पतितं द्रोणं कुरूणां गुरुसत्तमम् 027a अस्त्रं चतुर्विधं वेद यथैव त्रिदशेश्वरः 027c भार्गवो वा महावीर्यस्तथा द्रोणोऽपि माधव 028a यस्य प्रसादाद्बीभत्सुः पाण्डवः कर्म दुष्करम् 028c चकार स हतः शेते नैनमस्त्राण्यपालयन् 029a यं पुरोधाय कुरव आह्वयन्ति स्म पाण्डवान् 029c सोऽयं शस्त्रभृतां श्रेष्ठो द्रोणः शस्त्रैः पृथक्कृतः 030a यस्य निर्दहतः सेनां गतिरग्नेरिवाभवत् 030c स भूमौ निहतः शेते शान्तार्चिरिव पावकः 031a धनुर्मुष्टिरशीर्णश्च हस्तावापश्च माधव 031c द्रोणस्य निहतस्यापि दृश्यते जीवतो यथा 032a वेदा यस्माच्च चत्वारः सर्वास्त्राणि च केशव 032c अनपेतानि वै शूराद्यथैवादौ प्रजापतेः 033a वन्दनार्हाविमौ तस्य बन्दिभिर्वन्दितौ शुभौ 033c गोमायवो विकर्षन्ति पादौ शिष्यशतार्चितौ 034a द्रोणं द्रुपदपुत्रेण निहतं मधुसूदन 034c कृपी कृपणमन्वास्ते दुःखोपहतचेतना 035a तां पश्य रुदतीमार्तां मुक्तकेशीमधोमुखीम् 035c हतं पतिमुपासन्तीं द्रोणं शस्त्रभृतां वरम् 036a बाणैर्भिन्नतनुत्राणं धृष्टद्युम्नेन केशव 036c उपास्ते वै मृधे द्रोणं जटिला ब्रह्मचारिणी 037a प्रेतकृत्ये च यतते कृपी कृपणमातुरा 037c हतस्य समरे भर्तुः सुकुमारी यशस्विनी 038a अग्नीनाहृत्य विधिवच्चितां प्रज्वाल्य सर्वशः 038c द्रोणमाधाय गायन्ति त्रीणि सामानि सामगाः 039a किरन्ति च चितामेते जटिला ब्रह्मचारिणः 039c धनुर्भिः शक्तिभिश्चैव रथनीडैश्च माधव 040a शस्त्रैश्च विविधैरन्यैर्धक्ष्यन्ते भूरितेजसम् 040c त एते द्रोणमाधाय शंसन्ति च रुदन्ति च 041a सामभिस्त्रिभिरन्तःस्थैरनुशंसन्ति चापरे 041c अग्नावग्निमिवाधाय द्रोणं हुत्वा हुताशने 042a गच्छन्त्यभिमुखा गङ्गां द्रोणशिष्या द्विजातयः 042c अपसव्यां चितिं कृत्वा पुरस्कृत्य कृपीं तदा