001 गान्धार्युवाच 001a आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम् 001c गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत् 002a तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन 002c शयानं वीरशयने रुधिरेण समुक्षितम् 003a तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः 003c तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम् 004a शयानं वीरशयने वीरमाक्रन्दसारिणम् 004c आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते 005a प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम् 005c प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम् 006a अतीव मुखवर्णोऽस्य निहतस्यापि शोभते 006c सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः 007a पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता 007c पाकशासनिना सङ्ख्ये वार्द्धक्षत्रिर्निपातितः 008a एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना 008c सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् 009a सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् 009c भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् 010a संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत 010c भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात् 011a तमेताः पर्युपासन्ते रक्षमाणा महाभुजम् 011c सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः 012a यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह 012c तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः 013a दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः 013c कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः 014a सैषा मम सुता बाला विलपन्ती सुदुःखिता 014c प्रमापयति चात्मानमाक्रोशति च पाण्डवान् 015a किं नु दुःखतरं कृष्ण परं मम भविष्यति 015c यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः 016a अहो धिग्दुःशलां पश्य वीतशोकभयामिव 016c शिरो भर्तुरनासाद्य धावमानामितस्ततः 017a वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः 017c स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः 018a तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् 018c परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः