001 गान्धार्युवाच 001a एष वैकर्तनः शेते महेष्वासो महारथः 001c ज्वलितानलवत्सङ्ख्ये संशान्तः पार्थतेजसा 002a पश्य वैकर्तनं कर्णं निहत्यातिरथान्बहून् 002c शोणितौघपरीताङ्गं शयानं पतितं भुवि 003a अमर्षी दीर्घरोषश्च महेष्वासो महारथः 003c रणे विनिहतः शेते शूरो गाण्डीवधन्वना 004a यं स्म पाण्डवसन्त्रासान्मम पुत्रा महारथाः 004c प्रायुध्यन्त पुरस्कृत्य मातङ्गा इव यूथपम् 005a शार्दूलमिव सिंहेन समरे सव्यसाचिना 005c मातङ्गमिव मत्तेन मातङ्गेन निपातितम् 006a समेताः पुरुषव्याघ्र निहतं शूरमाहवे 006c प्रकीर्णमूर्धजाः पत्न्यो रुदत्यः पर्युपासते 007a उद्विग्नः सततं यस्माद्धर्मराजो युधिष्ठिरः 007c त्रयोदश समा निद्रां चिन्तयन्नाध्यगच्छत 008a अनाधृष्यः परैर्युद्धे शत्रुभिर्मघवानिव 008c युगान्ताग्निरिवार्चिष्मान्हिमवानिव च स्थिरः 009a स भूत्वा शरणं वीरो धार्तराष्ट्रस्य माधव 009c भूमौ विनिहतः शेते वातरुग्ण इव द्रुमः 010a पश्य कर्णस्य पत्नीं त्वं वृषसेनस्य मातरम् 010c लालप्यमानाः करुणं रुदतीं पतितां भुवि 011a आचार्यशापोऽनुगतो ध्रुवं त्वां यदग्रसच्चक्रमियं धरा ते 011c ततः शरेणापहृतं शिरस्ते धनञ्जयेनाहवे शत्रुमध्ये 012a अहो धिगेषा पतिता विसञ्ज्ञा समीक्ष्य जाम्बूनदबद्धनिष्कम् 012c कर्णं महाबाहुमदीनसत्त्वं सुषेणमाता रुदती भृशार्ता 013a अल्पावशेषो हि कृतो महात्मा शरीरभक्षैः परिभक्षयद्भिः 013c द्रष्टुं न सम्प्रीतिकरः शशीव कृष्णस्य पक्षस्य चतुर्दशाहे 014a सावर्तमाना पतिता पृथिव्यामुत्थाय दीना पुनरेव चैषा 014c कर्णस्य वक्त्रं परिजिघ्रमाणा रोरूयते पुत्रवधाभितप्ता