001 गान्धार्युवाच 001a अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव 001c पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम् 002a यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम् 002c स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः 003a तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः 003c अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति 004a एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः 004c आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता 005a तमेषा हि समासाद्य भार्या भर्तारमन्तिके 005c विराटदुहिता कृष्ण पाणिना परिमार्जति 006a तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी 006c विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम् 007a काम्यरूपवती चैषा परिष्वजति भामिनी 007c लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता 008a तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम् 008c विमुच्य कवचं कृष्ण शरीरमभिवीक्षते 009a अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते 009c अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः 010a बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ 010c रूपेण च तवात्यर्थं शेते भुवि निपातितः 011a अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः 011c कच्चिदद्य शरीरं ते भूमौ न परितप्यते 012a मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ 012c काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ 013a व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव 013c एवं विलपतीमार्तां न हि मामभिभाषसे 014a आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान् 014c पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि 015a तस्य शोणितसन्दिग्धान्केशानुन्नाम्य पाणिना 015c उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति 015e स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः 016a कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः 016c धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान् 017a द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः 017c रथर्षभाणां सर्वेषां कथमासीत्तदा मनः 018a बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम् 018c कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम् 018e त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत् 019a दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत् 019c वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः 020a न राज्यलाभो विपुलः शत्रूणां वा पराभवः 020c प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण 021a तव शस्त्रजिताल्ँलोकान्धर्मेण च दमेन च 021c क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय 022a दुर्मरं पुनरप्राप्ते काले भवति केनचित् 022c यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा 023a कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा 023c पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि 024a नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि 024c परमेण च रूपेण गिरा च स्मितपूर्वया 025a प्राप्य पुण्यकृताल्ँलोकानप्सरोभिः समेयिवान् 025c सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे 026a एतावानिह संवासो विहितस्ते मया सह 026c षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः 027a इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम् 027c उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः 028a उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम् 028c विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च 029a द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम् 029c विराटं वितुदन्त्येते गृध्रगोमायुवायसाः 030a वितुद्यमानं विहगैर्विराटमसितेक्षणाः 030c न शक्नुवन्ति विवशा निवर्तयितुमातुराः 031a आसामातपतप्तानामायासेन च योषिताम् 031c श्रमेण च विवर्णानां रूपाणां विगतं वपुः 032a उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम् 032c शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम् 032e आयोधनशिरोमध्ये शयानं पश्य माधव